________________
२७२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः
कस्मिन् काले ? त्वं माघकृष्णत्रयोदश्यां पूर्वाहने प्रथमपौरुष्यां अभिजिन्नक्षत्रे
॥२४॥
चतुर्दशमेन - षडुपवास्य शिवसुखं त्वं सम्प्राप्तोऽसि - एकत्रिंशद्गुणसमृद्धः सिद्धो बभूविथ । ते पुनरेकत्रिंशसिद्धगुणाः श्रीसिद्धान्ते इत्थं समुपवर्ण्यन्ते
'से न दीहे, न वट्टे, न संते, न चउरंसे, न परिमंडले, न किन्हे, न नीले, न लोहिए, न हालिदे, न सुक्किले, न सुरभिगन्धे न असुरभिगन्धे, न तित्ते, न कडुए, न कसाए, न अंबिले, न महुरे, न कक्कडे, न मउए, न गुरुएं, न लहुए, न सीए, न उण्हे, न निद्धे, न लुक्खे, ना काए, न संगे, न सहे, न इत्थी, न पुरिसे, न नपुंसे ।' इति अत्र संस्थानवर्णरसाः प्रत्येकं पञ्च सङ्ख्या इति पञ्चदश, द्वौ गन्धौ, अष्ट स्पर्शाः, वेदत्रिकं, कायोऽभिष्वङ्गो जन्म चेतित्रिकं इति सर्वमीलने एकत्रिंशसिद्धगुणा इति । हे जिन ! हे वल्लभ ! सर्वहितत्वात् सर्वोत्कृष्टरूपसौभाग्य-लावण्य-लक्ष्मी - लीलादिसर्वगुणविशिष्टत्वाच्च वल्लभत्वम् । हे मुनीन ! मुनीनां इन:- स्वामी तस्य सम्बोधनम् । अथवा हे जिनवल्लभ ! जिना: सामान्यकेवलिनः छद्मस्थवीतरागाः तेषां वल्लभ इव वल्लभः तैरप्युपाश्यमानत्वात् तत्सम्बोधनं, तथा हे मुनीन ! इति विशेषणद्वयम् । यद् वा हे जिन ! हे मुनीनां वल्लभ ! इति विशेषणोभयौ वाच्यौ । तत्र मुनीनां श्रुतकेवल्यादियोगिनां प्रतिपन्नचरमतनूनां वल्लभः स्पृहणीयः यदुक्तं
1
'पडिवन्नचरमतणुणो अइसयलेसं पजस्स दट्टुणं ।
=
भवहुत्तमणा झायंति जोगिणो तं जिणं नमह ॥ १ ॥ ' [ ] इति । एतेनाचार्यैजिनवल्लभसूरिभिः स्वनाम सूचितम् । महाकवयो हि स्वनामाङ्कं काव्यं कुर्वतीति स्थितेः । ततो मम विषये दयां कृपा कुरु तथा 'इहपरलोगाऽऽदाणमकम्हा-आजीव - मरणमसलोए' इति सप्तप्रकारं भयं हरअपनय । तथा मम मतिं सद्बुद्धिं देहि । 'देहि मयं' इति पाठे मतं अभीष्टं वाञ्छितं देहि। नय-प्रायय मामपि परमपदं मोक्षं, अपेर्गम्यमानत्वात्, भगवन् ! त्वं मोक्षं प्राप्तोऽसि ततः कृपां कृत्वा मामपि मोक्षं नयेत्यभिप्रायः । समर्थे हि प्रभौ प्रार्थना फलवती भवतीति निश्चित्य परमपदप्राप्तयः सूरयः परमानन्दसम्पदास्पदं बभूवुरिति गाथात्रयाऽर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org