________________
परिशिष्ट - 'क'• २७१ प्रभोरप्रतिचक्राख्या तीर्थे शासनदेवता । युता सा चक्रपाशेषुवरदैर्दक्षणैः करैः ॥३॥ चक्राङ्कुशधनुर्वज्रलक्षणैर्दक्षणेतरैः । सुपर्णवाहना स्वर्णवर्णा सन्निधिवर्तिनी ॥४॥'
तथा-'जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुराऽसुराः इत्यादि वचनाज्जगद्वन्द्यो भगवानिति । एतच्च सूत्रे एव किं नोक्तमिति चेदुच्यते सूत्रस्थिते: वैचित्र्यदर्शनार्थम् । उक्तं च -
'कत्थइ देसग्गहणं कत्थ य घिप्पंति निरवसेसाई। उक्कमकमजुत्ताइं कारणवसउ निरुत्ताई ॥१॥' [विशेषावश्यक०-३८८]
इति स्थितं । तथा चतुर्षु कल्याणेषु गर्भ-जन्म-व्रत-ज्ञानलक्षणेषूत्तराषाढानक्षत्रं यस्य अथवा चत्वारि कल्याणान्युत्तराषाढायां यस्य स तथा, तत्सम्बोधनं हे चतु:कल्याणोत्तराषाढ ! ॥२३॥
'सव्वे सव्वद्धाए सव्वन्नू सव्वकम्मभूमीसु । सव्वगुरु सव्वहिया सव्वे मेरुसु अहिसित्ता ॥१॥ सव्वाहि वि लद्धीहिं सव्वे वि परीसहे पराजित्ता । सव्वे वि य तित्थयरा पाउवगयाउ सिद्धिगया' ॥२॥
[मरणसमाधिपयन्ना-४३८-४३९] पादपोपगमनस्वरूपं चेदम्"निच्चल निप्पडिकम्मो, निक्खिवए जं जहिं जहाहि । अंगं एवं पाउवगम, नीहारिं वा अनीहारिं ॥१॥ पाउवगमं भणियं, समविसमे पायवुव्व जह पडिओ। नवरं परप्पउगा, कंपिज्ज जहा फलतरु व्व ॥२॥'
. [मरणसमाधिपयन्ना-४२६-४२७] अत्र 'निप्पडिकम्मो'त्ति नि:परिकर्मा-स्थाननिषीदनत्वग्वर्तनादिपरिकर्मरहितः । 'नीहारि'ति न गिरिकन्दरादौ ग्रामाद्बर्हिगमनं यत्राऽस्ति तन्निर्हारिः तदन्यदनिर्हारि इति । क्व अष्टापदे पर्वते, समं-सार्धं दशभिः साधुसहस्रैः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org