SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २७०• श्रीनेमिनाथस्तोत्रसङ्ग्रहः छयजुय'त्ति तानि विंशतिसहस्राणि षट्शतयुतानि (२०६००) 'विउव्वीणं' ति वैक्रियलब्धिवताम् ॥२१॥ तथा द्वादशसहस्राणि षट्शतानि सार्द्धानि (१२६५०) वादिनश्च सदेवमनुजाऽसुरायां सभायामप्यपराजिताः । तथा विपुलमतयश्च द्वाविंशतिसहस्राणि षट्शतानि सार्द्धानि तत्र विपुला बहुविधविशेषणोपेतमन्यमानवस्तुविग्राहित्वेन विस्तीर्णा मतिर्मनःपर्यायज्ञानं येषां ते विपुलमतयः, ते हि सम्पूर्णे मनुष्यक्षेत्रे व्यवस्थितानां संज्ञिनां मनोवर्ति सर्वविशेषोपेतं वस्तु विपुलमतयो जानन्ति । ऋजुमतयस्तु सामान्यत एवाऽर्द्धतृतीयाङ्गलन्यूने मनुजक्षेत्रे व्यवस्थितानां संज्ञिनां मनोमात्रग्राहकाः न च तैरिहाधिकार इति । तथा द्वाविंशतिसहस्राणि नवशतानि च (२२९००) अनुत्तरोपपातिनः अनुत्तरविमानेषूपपात - उत्पत्तिर्विद्यते येषां ते तथा, ते चागामिभवभाविसिद्धिगतयो ज्ञेयाः ॥ २२ ॥ इति गाथा चतुष्ट्यर्थः अथ मोक्षकल्याणकं भणन्ति सामन्नं पालिय पुव्वलक्खमक्खाय महव्वए, पंच । चक्कहरभरहवंदिय ! चउकल्लाणुत्तरासाढ ! ॥२३॥ पज्जंकठिओ अट्ठावए समं दसेहिं साहुसहस्सेहिं । तं माहकिण्हतेरसि पुव्वऽभीइरिक्खमि ॥२४॥ चउदसमेण सिवसुहं संपत्तोसि जिणवल्लह ! मुणीण ! | मह कुरु दयं, हर भयं, देहि मइ, नेहि परमपयं ॥२५॥ तिसृभिः कुलकम् ॥ श्रामण्यं-चारित्रधर्मं पालयित्वा पूर्वलक्षं यावत् भगवतश्च सर्वायुः चतुरसीतिपूर्वलक्षाः तत्र विंशतिपूर्वलक्षाः कुमारत्वे त्रिषष्टिपूर्वलक्षा राज्ये एकं पूर्वलक्षं श्रामण्ये इति । तथा पञ्चमहाव्रतान्याख्याय - प्ररूप्य हे चक्रधरभरतवन्दित !-भरतचक्रवर्तिप्रणत ! अत्र भरत इत्युपलक्षणमात्रं तेन ‘वराक्ष-श्रग्युतावामदोर्युगो गजवाहनः । समातुलिङ्गया.... दोर्द्वयः कनकद्युतिः ||१|| समुत्पेदे जगद्भर्तुः सदा सन्निधिसेवकः । तीर्थत्राणकलादक्षो यक्षो गोमुखसंज्ञया ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy