________________
२७४ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः 'वामपमाणं चक्कं १ च्छत्तं २ दंडं ३ दुहत्थयं चम्मं ४। .. छत्तीसंगुल खग्गो ५ सुवन्नकांगिणि चउ अंगुलिया ६ ॥१॥ . चउरंगुलो दुअंगुलं पि हु लोयमणी ७ पुरोहि ८ गय ९ तुरया १० । सेणावइ ११ गाहावइ १२ वड्डइ १३ त्थी १४ चक्कि रयणाई ॥२॥
[बृहत्सङ्ग्रहणी-२६४-२६५] - अथ येनाऽप्रतिहतधर्मचक्रेण स्फार-स्फुट-स्फुरितज्ञानरत्नेन पक्षे स्फारस्फुट-स्फुरितनानारत्नेन इदं सकलमपि भरतक्षेत्रं अलङ्कृतं साधितं च। ___ तं षोडशतीर्थकरं पञ्चमं च चक्रवर्तिनं प्रणम्य तस्यैव किञ्चित् सुचरितलेशस्य कीर्तनं करिष्यामीति सम्पिण्डितः प्रथमगाथाद्वयार्थः ॥१-२॥
अथ भगवच्चरितमेव पूर्वभवैः प्रपञ्चन्तः प्राहु:इह भरहे रयणपुरे राया तुममासि देव ! सिरिसेणो। तो इह कुरुसु मिहुणो, सुयवसणविरागओ जाओ ॥३॥
व्याख्या - हे देव ! त्वं इह भरते-अस्मिन् जम्बूद्वीपसत्के भरतक्षेत्रे रत्नपुरे नगरे-राजा आसी: श्रीषेणनामा श्रीविमलबोधाचार्यदेशनातः प्राप्तसम्यक्त्वश्राद्धधर्मः ततः सुतव्यसनविरागः सुतयोरिन्दुषेण-बिन्दुषेणयोर्व्यसनं अनन्तमर्त्यकावेश्यारिरंसया युद्धं क्व विचरिते ? तु कौशाम्बीसबलभूपालसुतायाः श्रीकान्तायाः स्वयंवरत्वेन समागतायाः पाणिग्रहणार्थं द्वयोर्युद्धं तेन विरागो-निर्वेद: तस्मात् तालपुटविषप्रयोगेण विपद्येति शेषः । इह जम्बूद्वीपे कुरुष्विति-उत्तरकुरुषु मिथुनको-युगलिको मनुष्यो जात इति गाथान्तेन सम्बन्ध इति गाथार्थः ॥३।। ततश्च
होउं सोहम्मसुरो वेयड्ढे तं अहेसि खयरिंदो । अमियगुणअमियतेओ रहनेउरचक्कवालपुरे ॥४॥
व्याख्या - भूत्वा सौधर्मे स्वर्गे सुरो-देवस्त्रिपल्योपमायुः । तत एतद्भरतक्षेत्रसत्के वैताढ्ये रथनूपुरचक्रवालपुरे त्वमभवः । किं तदित्याह खचरेन्द्रो-विद्याधरेन्द्रः, कियद्गुणं किं नाम वा? इत्याह-अमिता असङ्ख्याता गुणा यस्य स चासौ अमिततेजाश्च अमितगुणाऽमिततेजाः अमिततेजो नामेति गाथार्थः ॥४॥ तत्र च -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org