Book Title: Navgranthi
Author(s): Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ 116] वादमाला [3] न्ति,-निरूपकतासम्बन्धेन स्वत्वमेव न स्वामित्वम् / अपि त्वयमस्य स्वामी यादिप्रतीतिसिद्धं तदपि पदार्थान्तरं तच्च वृत्तिनियामकविशेषणताविशेषेण स्वामिनिष्ठं निरूपकत्वात्यविशेषणताविशेषेण च धननिष्ठमिति न दोषः // __ केचित्तु स्वत्वमेव स्वामित्वं न तु पदार्थान्तरं निरूपकतासम्बन्धस्य वृत्त्यनियामकत्वेऽपि तन्निरूपकत्वस्य स्वरूपसम्बन्धेन वर्तमानत्वादेवात्र पुरुषेऽस्य द्रव्यस्य स्वामित्वमिति प्रत्ययोपत्तेरित्याहुः, तदसत् , विनिगमकाभावात् स्वामित्वमेव पदार्थान्तरं तन्निरूपकत्वमेव स्वत्वमितिव्यत्ययः स्यापि सुवचत्वात् , स्वत्वस्वामित्वयोः स्वामित्वस्वत्वनिरूपकतात्मकत्वे स्वस्वामिपदशक्यतावच्छेदकगौरवाद्विभिन्नतदुभयपदार्थकल्पनाया एवौचित्यादिति // अथैवं स्वत्वस्वामित्वयोर्मिश्रपदार्थत्वे चैत्रस्य धनमित्यादौ स्वत्वं वा षष्ठ्यर्थः स्वामित्वं वेत्यत्र विनिगमनाविरहः / न च स्वामित्वस्य षष्ठ्यर्थत्वे चैत्रस्य धनमितिवद् धनस्य चैत्र इत्यपि प्रत्ययः स्याच्चैत्रस्य धननिरूपितस्वामित्वाश्रयत्वादिति वाच्यमू / स्वत्वस्य षष्ठयर्थत्वेऽपि तादृशप्रत्ययस्य दुर्वारत्वाद्धननिष्ठस्वत्वनिरूपकत्वाच्चैत्रस्याषष्ठ्यर्थस्वत्वस्य निरूपितत्वसम्बन्धेनैव प्रकृत्यर्थे विशेष्यतयाश्रयतासम्बन्धेनैव चानुयोगिविशेषणतयान्वयो न तु सम्बन्धान्तरेणेति व्युत्पत्तिकल्पने च स्वामित्वस्य षष्ठ्यर्थत्वेऽपि पष्ठ्यर्थस्वामित्वस्य निष्ठतासम्बन्धेनैव प्रकृत्यर्थे विशेष्यतया निरूपकतासम्बन्धेनैव चानुयोगिविशेषणतयान्वयो न तु सम्बन्धान्तरेणेति व्युत्पत्तेरपि सुवचत्वादिति चेत् , न, स्वामित्वस्य षष्ठ्यर्थत्वे चैत्रीये धनेऽपि नेदं चैत्रस्येति व्यवहारापत्तेः / स्वामित्वस्य चैत्रवृत्तितया तदभावस्य सुतरां धने सत्त्वात् / अथ तत्र तत्संसर्गाभावबोधे तत्र तत्पदोपस्थापितस्य प्रतियोगिनस्तादात्म्यातिरिक्तसम्बन्धेनान्वयबोधस्तन्त्रं न त्वाधाराधेयभावेन / येन सम्बन्धेन यत्पदोपस्थापितस्य प्रतियोगिनोऽन्वयस्तत्सम्बन्धावच्छिन्नप्रतियोगिताकत्वं व्युत्पत्तिबललभ्यम् / अन्यथा स्वत्वस्यापि संयोगादिनाऽभावस्य सार्वत्रिकत्वेन तवाप्यतिप्रसंगात् ; तथा च प्रकृते / निरूपकतासम्बान्धावच्छिन्नप्रतियोगिताकचैत्रनिष्ठस्वामित्वाभावस्य धनादावभावान्नातिप्रसंग इति चेत् , न, तस्य वृत्त्यनियामकतयाऽत्यन्ताभावप्रतियोगितानवच्छेदकत्वात् / ननु वृत्त्यनियामकसम्बन्धस्य कथं न प्रतियोगितावच्छेदकत्वं येन सम्बन्धेन यत्र प्रतियोगिग्रहे तेन सम्बन्धेनं तत्र तदभावाग्रहस्तस्यैव तदभावप्रतियोगितावच्छेदकत्वात् , येम सम्बन्धेन प्रतियोगिमति तदभावो नास्ति स एव प्रतियोगितावच्छेदक इत्युपगमे संयोगेन रूपाधभावादेरप्यसिद्धापत्तेरिति चेत् , न, संयोगादिना घटाभावादिप्रत्ययवन्निरूपकतया स्वामित्वाद्यभावप्रत्ययविरहावृत्यनियामकसम्बन्धमात्रस्याभावप्रतियोगितानवच्छेदकत्वकल्पनात् , यदि च 'न घट' इत्यादौ तादात्म्यावच्छिन्नप्रतियोगिताकत्वमानुभविकं तत्र तादात्म्यसंसर्गाविशेषितप्रतियो

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320