Book Title: Navgranthi
Author(s): Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 180
________________ विषयतावादः [129 विशिष्टबुद्धिविषयता च विषयत्वान्तरनिरूपिता, प्रकारता विशेष्यतासंसर्गतारूपाणां तासां परस्परं निरूप्यनिरूपकभावनत्वात् / अन्यथा घटवद्भूतलं पर्वतो बह्निमानित्याकारकज्ञानविषयतातो घटवान् पर्वतो वह्निमद्भूतलमित्याकारकज्ञानविषयताया अवैलक्षण्यप्रसङ्गात् / मन्मते प्रथमं [मे] धटप्रकारकत्वभूतलविशेष्यत्वयोर्वह्निप्रकारत्वपर्वतविशेष्यत्वयोश्च परस्परं निरूप्यनिरूपकभावः, द्वितीये च वह्निप्रकारत्वभूतलविशेष्यत्वयोर्घटप्रकारत्वपर्वतविशेष्यत्वयोरिति वि [वै] लक्षण्योपपत्तिः / एवं च 'घटवभूतलं घटवान् पर्वत' इत्याकारकसमूहालम्बने घटादिरूपैकैकप्रकारनिष्ठप्रकारताया अपि भूतलपर्वता दिविशेष्यभेदेन, घटवद्भूतलं पटवच्चेत्यादिसमूहालम्बने च भूतलायेकैकनिष्ठविशेष्यताया अपि घटपटादिप्रकारभेदेन भेदो बोध्यः / उभयविशेष्यतानिरूपितत्वस्यैकप्रकारतायाम् उभयप्रकारतानिरूपितत्वस्य चैकविशेष्यतायां स्वीकारे तादृशसमूहालम्बनादावतिरिक्तविषयताकल्पनप्रसङ्गात् , मन्मते घटवद्भुतलमित्याद्याकारक प्रत्येकज्ञानीयप्रत्येकविशेष्यतानिरूपितप्रकारताभ्यां प्रत्येकप्रकारतानिरूपितविशेष्यताभ्यामेवोपपत्तेः, समूहालम्बने प्रकारताभेदेन विशेष्यत्वा भेदे घटवद्भूतलं पटवच्चेत्यादि समूहालम्बनादेकत्रद्वयमिति रीत्या एकर्मिणि नानाधर्मवैशिष्टयार्वगाहिघटवद्भूतलं पटवदित्यादि ज्ञानस्यावैलक्षण्यप्रसङ्गः, मम तु समूहालम्बने प्रकारभेदेन विशेष्यताभेदो न त्वेकत्र द्वयमिति रीत्या तादृशबोध इति समूहालम्बनतस्तस्य वैलक्षण्योपपत्तिरिति / विशेष्यत्वं प्रकारत्वं च द्विविधं किञ्चिद्धर्मावच्छिन्नं निरवच्छिन्नं च / तत्र किश्चिद्धर्मावच्छिन्नविशेष्यता भूतलत्वाद्यकविशेषणविशिष्टे घटादिरूपाऽपरधर्मवैशिष्टयावगाहि ज्ञाने, तत्र घटादि प्रकारतानिरूपितभूतलत्वावच्छिन्नत्वात्*., अन्यथा केवलमेकत्र द्वयमिति रीत्योभयवैशिष्टयावगाहिनो भूतलं घटवदिति ज्ञानात्तस्य वैलक्षण्यानुपपत्तेः / किञ्चिद्धर्मावच्छिन्नप्रकारता च विशिष्ट निरूपितवैशिष्टयावगाहिघटवदित्याकारकज्ञाने, तत्र घटादिप्रकारताया घटत्वावच्छिन्नत्वात् , अन्यथा केवलं विशेष्ये विशेषणं तत्र च विशेषणान्तरमित्येवं रीत्या घटत्वाद्यवगाहिनस्तथाविधज्ञानाद्विशिष्टवैशिष्टयबोधस्य वैलक्षण्यानुपपत्तिः, प्रपञ्चितं चेदमधिकमन्यत्र / ____तदंशे विशेषगतापन्नस्यैव तन्निष्ठविषयतावच्छेदकत्वमिति बोध्यं, तद्धर्मावच्छिन्नविषयता च न तद्धर्मप्रकारतानिरूपिता तस्यास्तथात्वे मानाभावात् / न चैवं भूतलं घटवदित्यादिज्ञानानां भूतलत्वादिप्रकारतानिरूपित विशेष्यताशालित्वानुपपत्तिरिति वाच्यं, केवलं 'एकत्र द्वयम्' इति रोत्या भूतलत्वघटवैशिष्टयावगाहिज्ञानोयभूतलत्वादिनिष्ठानवच्छिन्नप्रकारतानिरूपिताविशेष्यतानियामकसामय्या अपि तादृशविशिष्टवैशिष्टयबोधकाले सत्वात्तस्य तादृशविशिष्टविषयताशालित्वस्यावश्यकत्वात्तत एव तथात्वोपपत्तेः / * त्वाद्यवच्छिन्नत्वाद्, इति प्रत्यन्तरे /

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320