Book Title: Navgranthi
Author(s): Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ न्यायसिद्धान्तमंजरी शब्दखण्ड टोका चैवमप्युत्पलं नीलेत्यादितस्तादृशबोधः विनिगमकाभावात्प्रकृतविशेषणवाचकपदोत्तरवर्तिविजातीयवचनशून्यत्वे सतीत्यादिनाऽपि हेतुत्वात् , तथा च तादृशविशेषणपदज्ञानल्वेन तादृशविशेष्यपदज्ञानत्वेन च हेतुतेतिफलितम् / प्रकृते च विशेषणवाचिनीलपदोत्तरवर्त्यपेक्षया विजातीयविभक्तेरुत्पलमदे सत्वाद्विरुद्धविभक्तिरहितोत्पलपदज्ञानरूपकारणविरहेणादोषात् / न चैवं नीलोत्पलमित्यादेरप्यबोधकत्वापत्तिः, अत्र विजातीयविभक्तेः सत्वेऽपि विरुद्धविभक्तेरभावात् / अतएव विजातीयेत्युक्त्वा विरुद्धेत्यप्युक्तं; विरुद्धविभक्तिर्हि तत्पदार्थस्य तत्पदार्थेऽभेदान्वयबोधविरोधिनी विभक्तिः / उत्पलपदार्थे नीलाभेदान्वयबोधे च नीलपदेन सह कर्मधारयतापन्नोत्पलपदोत्तरविभक्तिर्न विरुद्धा; उत्पलं नीलेति कर्मधारयतानापन्नोत्पलपदोत्तरविभक्तिस्तु विरुद्धैव; नीलोत्पलं सुन्दरेत्यत्र सुन्दरपदार्थेनाभेदबोधेऽपि सा विरुद्धैवात एव तत्त्पदार्थघटनाऽपि तथा चोत्पलविशेष्यकनीलपकारकशाब्दबोधे नीलवाचकपदकर्मधारयतापन्नोत्पलवाचकपदोत्तरविभक्तिभिन्ना विजातीया विभक्तिविरुद्धविभक्तिर्यथा नीलस्योत्पलम्; उत्पलं नीलेत्यादौ; एवं स्तोंकं पचतीत्यादौ पाकादिविशेष्यक स्तोकादिप्रकारकबोधे पाकार्थधातुसमभिव्याहृतस्तोकार्थकपदोत्तरवर्तिद्वितीयैकवचनातिरिक्ता विजातीया विभक्तिविरुद्धविभक्तिस्तथा च यादृशविजातीयविभक्तिसत्वेऽप्यभेदान्वयबोधस्तसद्भिन्नविजातीयविभक्तिराहित्यं प्रयोजकमिति फलितम् इत्थं च दधि शुक्लमित्यादौ लुप्तविभक्तेरस्मरणेऽपि न क्षतिः / दधि शुक्लमित्यत्र विभक्तेविरुद्धत्वाभावस्य सुवचत्वात् , तत्तद्भिन्नविजातीयविभक्तेरेव विरुद्धत्वात् / न चैवं यादृशयादृशविभक्तिसत्वेऽभेदान्वयबोधस्तदेव तन्त्रमिति समानविभक्तिकत्वपक्ष एव युक्त एवेति किं त्यागेनेति वाच्यम् , यादृशत्वादेरननुगतत्वात् / अत्र च तत्तभेदकूटप्रवेशेनानुगमात् / वस्तुतो विरुद्धविभक्तिराहित्यज्ञानमपि न तन्त्रं; दण्डीया घटजनकता इत्यत्र दण्डघटजनकयोरभेदान्वयबोधापत्तेः / किन्तु समभिव्याहारविशेषपरिचायकम् ; इत्थं चोत्पलविशेष्यके तादाम्येन नीलप्रकारकशाब्दबोधे नीलोत्पलं नीलमुत्पलम् उपलं नीलमित्यादि समभिव्यवहारज्ञानत्वेनैव कारणत्वं तत्तदव्यवहितोत्तरत्वसम्बन्धेन जन्यतासम्बन्धेन वा तादृशसमभिव्याहारज्ञानविशिष्टस्य कार्यतावच्छेदकत्वाददोषः / इत्थं च यदुच्यते तर्कोपजीवकविधिपाटवं नाटयता भूषणकारेण समासप्रविष्टानामवयवानां पटुजातीयेत्यत्र तीयवन्न वाचकता स्वव्यापकशक्यतावच्छेदकानुपूर्वीविरहविशिष्टानुपूर्व्या एव शक्ततावच्छेदकत्वात् , अन्यथा नीलमुत्पलमित्यत इव नीलोत्पलमित्यत उद्देश्यविधेयभावशालिपदार्थद्वयबोधापत्तेरिति तन्निरस्तम् ; उक्तशक्ततावच्छेदकत्वकल्पने महागौरवात् ; विशेषणविशेष्यभावमात्रेणोक्तसमभिव्याहारत्रयस्यैव बोधकत्वात् उद्देश्यविधेयभावेन च समासात्मकस्याबोधकत्वात् ; सर्वथा तदबोधकत्वे चात्राविमृष्टविधेयांशत्वं न स्यात् किन्त्ववाचकत्वमिति न किंचिदेतत् ; तदिह नीलोत्पलमित्यस्येव राजपुरुष इति समभिव्याहारस्य मेदेनैव पदार्थद्वयाभेद

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320