Book Title: Navgranthi
Author(s): Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ न्यायसिद्धान्तमञ्जरीशब्दखण्डटोका __मूलम् - म्यादेतत् यदि शक्तिग्रहः सहकारी तदा घटशब्दात्पटप्रत्ययः किन्न स्यात्, अस्ति च तस्य शकिग्रहो घटे / अथ यः शब्दो यत्र गृहीतशक्तिकः स तदर्थं प्रत्याययतीति चेत्तर्हि काश्यां गौरस्तीति वाक्याद्देशान्तरीयस्य गोः प्रत्ययो न स्यात् न हि तस्य काश्यां स्थितायां गवि शक्तिग्रहोऽस्ति तस्या एवप्रतीतेः। ___ अत्र मीमांसका गवादिपदानां गोत्व एव शक्तिः कथं तर्हि व्यक्तिलाभ इति चेत तदाक्षेपादित्याहुः / ननु कोऽयमाक्षेपः तस्यार्थापत्तिरेवाऽऽक्षेपः गोत्वं हि स्वाश्रयं विनाऽनुपपन्नं तमाक्षिपतीति भट्टाः। तन्न, अनुपपत्तिज्ञानमन्तरेणापि गौरस्तीतिवाक्यागोत्वविशिष्ट व्यक्तिप्रतीतेः। तस्मात्समानवित्तिवेद्यत्वमाक्षेप इति गुरवः / यावती हि जाति धीय॑तिं विषयी करोतीति व्यक्तेर्लाभः / इदमेव कथमिति चेत् जातिभानसामाग्र्या एव तद्बोधकत्वमिति गृहाण / टीका-स्यादेतदिति-शक्तिग्रहः-पदशक्तिग्रहः शक्तिग्रहस्य शाब्दबोधे समानविषयकत्वेन हेतुत्वान्नोक्तदोष इति शङ्कते-अथेति तथाप्यन्यथानुपपत्तिरित्याह-नहींति काश्यामिति-गोविशेषणमेतत्, देशान्तरीयस्य-देशान्तरे विद्यमानस्य कदापि काश्यामनामतस्य पुरुषस्येत्यर्थः / तस्य-देशान्तरीयपुरुषस्य / तथा च शक्तिग्रहाविशेष्यव्यक्तिभानं योग्यतावशादपि शाब्दे न स्यादित्यत्र तात्पर्यम् / अत्र गवादिपदशक्तौ मीमांसकाः प्रतिजानत इत्यध्याहारेण योजनीयम् / घटपदशक्तिर्घटत्वविशिष्टवृत्तिर्नवेत्याद्या अत्र विप्रतिपत्तयः / विधि-नैयायिकानां निषेधो मीमांसकानाम गोत्व एवेति-एकस्य हि गवादेः शक्यत्वेऽपरस्य बोधो न स्यात्सर्वस्य शक्यत्वे त्वनुगमार्थ गोत्वादिविशिष्टे शक्तिर्वाच्येति "नागृहीत विशेषणा"-न्यायेन गोत्वादावेव गोपदादिशक्तेर्युक्तत्वात् / न च जातिमात्रशक्ताव पे व्यावर्तकतया तस्यां व्यक्तिनिवेश्येति वाच्यम्, अन्त्यविशेषवज्जातेः स्वत एव व्यावृत्ततयाऽनुगततया च व्यक्त्यपेक्षाविरहात् / न चैवं धेनुपदे पिधानकर्मविशेषस्य महिण्यादिसाधारण्यागोत्वमवच्छेदकं वाच्यमिति आवश्यकत्वाद्गोत्व- शक्त्यापत्तिः, तत्र गोत्वस्य वृषभसाधारण्येन धेनुपदाशक्यतयाऽवच्छेदकत्वाऽनङ्गीकारादिति / तदाक्षेपादिति-जात्याक्षेपादित्यर्थः / तमाक्षिपतीति-तं गाम् इत्थं चान्यलभ्यत्वादपि व्यक्तौ न शक्तिरिति व्यज्यते अनुपपत्तीतितथा च जातिवद्वयक्तेरपि शब्दादाहत्यैव प्रतीते क्षेप्यत्वं किन्तु शब्दार्थत्वमिति युक्तम् / अपि चैवं विभक्त्यर्थसंख्यान्वयानुपपत्तिः, किंचाक्षेपो “गोत्वं गवाश्रितं गोत्वत्वादित्याकारः; व्यक्त्याश्रितं जातित्वादित्याकारो" वा / नाद्यः, पक्षे तद्ग्रहे सिद्धसाधनात् / नान्त्योऽपि व्यक्तित्वजातित्वादेः पदाजुपस्थितेः / न च तावतामनुपस्थितौ शाब्दबोधो न भवतीति केनापि वक्तुं शक्यम् / न च जातिमात्रवाचकपदाज्जात्यंशोबोधे विशिष्टगोचरसंस्कारादपि जातिमात्रस्मरणमालोचनस्य * विवादादिति विशेषोचितम /

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320