Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 6
________________ नन्दो पा ख्या न म्। __उँ नमः सर्वज्ञाय । नन्दभद्रपुरं नाम धरामध्ये मनोहरम् । धनधान्यसमाकीर्णं सर्वदेवमनोत्सवम् ॥ १॥ तत्र चाभून्महीपालो नन्दनामा महाबलः।। धर्मशास्त्रप्रवीणश्च नीतिवान् गुणवत्सलः ॥२॥ विप्रा वेदविदस्तत्र सुखिनः पौरवासिनः ।। मेघश्व कामवर्षी च हेमपुष्पा च मेदिनी ॥३॥ तत्र नन्दो महाराजा नन्दराज्ञी पतिव्रता। वैरोचनो ह्यमात्यश्च सुन्दरी तस्य गेहिनी ॥४॥ यादृशं नाम वै तस्या रूपं तादृक् प्रवर्तते । यादृशी मेनका रम्भा सर्वाभरणभूषिता ॥५॥ रूपयौवनशोभादया सदा मधुरभाषिणी। पतिव्रता च साध्वी च उत्पन्ना विमले कुले ॥६॥ एकस्मिन् दिवसे सा स्त्री गवाक्षे गानमारभत् । अधस्ताद् गच्छता राज्ञा गानमश्रावि शोभनम् ॥७॥ तच्छ्रुत्वा तत्र राजा च काममोहवशंगतः । तत्र स्थित्वा क्षणं राजा ऊर्ध्वदृष्टिं चकार सः ॥८॥ केयं कस्यापि भार्या च कस्येदं भवनं शुभम् । एतन्मनसि संचिन्त्य राजा तत्र विमोहितः ॥९॥ एतस्मिनवसरे राजा मूछौंगतः सन् पुरोहितेन दृष्टः । पुरोहितेन चिन्तितम् । केमिदं हा देव ! कथं राजा भुवि पतितः । उपर्यागत्य राज्ञो मुखं विलोक्य राजानं ति वाक्यमुक्तम् । हे आर्य राजन् ! उत्थीयताम् । पश्य त्वं नयचक्षुषा । महतामवस्था थमीदृशी । तथा पुरोहितवचनाद् राजा संप्रबुद्धः । विलोक्य पुरोहितं प्रत्युक्तम् । हमेकान्ते कथयिष्यामि । तदा पुरोहितेन सर्व मनसि ज्ञात्वा राजानं ति वाक्यमुक्तम्। शृणुं त्वं च महाराज ! वैरोचनमिदं गृहम् । तस्य भार्या तथैवेयमुपायेन ददामि ते ॥ १० ॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30