Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
बन्दनृपकथा
कीर उवाच । न च पश्यति जन्मान्धो कामान्धोऽपि न पश्यति । न पश्यति मदोन्मत्तो अर्थी दोष न पश्यति ॥२४॥
राजोवाच । पक्षपुष्टिं कथं वाक्यं परुषं मे ब्रवीषि भोः। कथं विभेषि नो मृत्योर्नेच्छसे जीवितं हि किम् ? ॥२५॥ अहं राजा प्रजामध्ये तव जातिविहङ्गमः (मा)। त्वत्तो मे मरणं नास्ति मत्तो ते मरणं ध्रुवम् ॥ २६ ॥
कीर उवाच । चेत् त्वं राजाऽसि किं जातं अहमस्मि जन(न: १) प्रभो।। मारणे अ( त्व)यशः लोके परत्र चाधमा गतिः ॥ २७ ॥ श्रुत्वा क्रोधान्धभूत्वा वै यावद् धावति मारणे । राजानं कुपितं ज्ञात्वा नारी वचनमब्रवीत् ॥ २८॥
नारी उवाच । राज्ञः कोपस्य शान्त्यर्थं पद्मिनी पद्मलोचना। दास्यस्मि तव राजेन्द्र ! रक्ष मे कीरपक्षिणम् ॥ २९ ॥ निषीद कोमले शयने एवमुक्तं तदा तया। हावभावकटाक्षेश्व राजा मनसि तोपितः ॥ ३० ॥ तत्रैकः पालितश्चौतुस्तिष्ठते मन्त्रिणो गृहे। राजानं पश्य नारी च स्नेहाकुलपरस्परम् ॥ ३१ ॥
मार्जार उवाच । कोऽसि त्वं चौर ! इत्युक्त्वा मार्जारो घुघुराययत् । बहिनिंगच्छ रे मृढ ! नो चेत् ! मृत्युरिहास्ति ते ॥ ३२ ॥
रामोषाच । यस्मिन् रुष्टे भयं नास्ति तुष्टे नैव धनागमः । उद्ग्रहो निग्रहो नास्ति स रुष्टः किं करिष्यति ॥ ३३ ॥
नारी उवाच । मा त्वमाक्रन्द मार्जार ! नन्दराजा न तस्करः । आदरं कुरु यत्नेन दुर्लभं राजदर्शनम् ॥ ३४॥
मार्जार उधाच।
Page Navigation
1 ... 22 23 24 25 26 27 28 29 30