Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 28
________________ नन्दनृपकथा २३ सर्व संक्षेपतो युक्तं मालिना सुन्दरी प्रति । सर्वमाकर्ण्य तद्राजा समायातः स्ववेश्मनि ॥७४ ॥ प्रातःकाले च सम्प्राप्ते चिन्तयामास मानसे । किं करोमि क्व गच्छामि पितादुःखोऽतिदुःसहः ॥ ७५ ॥ कं वदामि निजं दुःखं न च शक्नोमि गोपितुम् । मारणीयः कथं मन्त्री पापिष्ठः स्वामिघातकः ॥७६॥ मृषेनैव मिषं कृत्वा पूत्कारं च चकार सः। मृतोऽस्मीति मृतोऽस्मीति केचिद् धावत धावत ॥७७॥ ततः कोलाहलं जातं सर्वे लोकाः ससम्भ्रमाः। मन्त्रिमुख्याः समायाता हाहारवसमाकुलाः ॥७८॥ किमिदं ब्रूहि भूपाल ! कष्टं ते कुत्र विद्यते । उपायान्नपि कुर्वीमः सर्वैर्जीवै निजैनिजैः ॥ ७९ ॥ राजोवाच । महच्छूलं समुत्पन्नं हृदये दारुणं भृशम् । सद्यःप्राणहरं घोरं किं करोमी ति बान्धवाः ! ॥८॥ श्रुत्वा ते दुःखिताः सर्वे हा हा दैवेन किं कृतम् ?। देवो वा व्यंतरो कोऽपि कुपितो ज्ञायतेऽधुना ॥ ८१॥ यतो पुरा हतो नन्दः छलरूपेण केनचित् । तदर्थं युज्यते कर्तु शान्तिकं पौष्टिकं तथा ।। ८२॥ एतदाकर्ण्य राज्ञोक्तं वर्तते भूरि भूतवित् । अस्मिन्नेव पुरे माली शीघ्रमाकारणीयः सः ॥८३॥ सोऽपि आकारितो शीघ्र माली वै राजसेवकैः । भूरि सत्कारितः सोऽपि निषन्नो राजसन्निधौ ॥ ८४॥ अत्रान्तरे च भूमीशो वेगं मुक्त्वा बहिययौ। .. आकारि जनमात्मीयं किञ्चिद्वै उक्तवानहो ॥ ८५॥ आहूय सुभटान् भद्र ! सायुधानत्र रक्ष च । दीयतामगला द्वारे दृढा मा यातु को बहिः ॥ ८६ ॥ एवमागत्य तत्रैव राजा वदति मालिने । वृत्तान्तं रात्रि सर्व सर्वेषामग्रतो वद ॥ ८७॥

Loading...

Page Navigation
1 ... 26 27 28 29 30