Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
नन्दनृपकथा
कोsपि चित्रमयः प्राणी दृष्ट्वा राजा विमोहितः । तस्यानु प्रेरयन्नस्त्रं गतो दूरं समन्त्रिणः (कः) ॥ ४७॥ दृष्टिगोचरं ज्ञात्वा तं मृगं नृपनन्दनः । तृषाssक्रान्तितश्चाथ तोयं कुत्रापि मन्त्रवित् ! ॥ ४८ ॥ दूरतो दृष्टवान् मंत्री भूरुहाणां वनं घनम् । द्विजैर्नानाविधैः पूर्ण लतागुल्मादिशोभितम् ॥ ४९ ॥ ater वापिका रम्या विशाला चित्तहारिणी । निर्मला तोयसम्पूर्णा तिष्ठत्यतिसनातना ॥ ५० ॥ अश्वादुत्तीर्य राजा वै प्रविवेश तृषार्तितः । पीत्वा तच्छीतलं तोयं यावत् तिष्ठति तत्र सः ॥ ५१ ॥ तावद्विलोकयामास वृत्तं भित्तौ विलेखितम् ।
तद् वाच्य चिन्तयामास मंत्री वाच्य विलक्षति ॥ ५२ ॥ एवं सञ्चिन्त्य राजा वै गृहीत्वा आर्द्रमृत्तिकाम् । लेपयित्वा च तं वृत्तं एवं कृत्वा बहिर्ययौ ॥ ५३ ॥ ततो मन्त्री गतो वायां पीत्वा तोयं च शीतलम् । लिप्तमाधुनिकं दृष्ट्वा यावत् तं धौति विस्मयः ( यात्) ॥ ५४ ॥ तावत् तन्निर्गतं वृत्तं मन्त्री मन्त्रसमन्वितः ।
तं वाच्य विमनो जातो वक्ष्यमाणमिदं हि तत् ॥ ५५ ॥ तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं वि (व्य ? ) बसायिनम् । मन्त्रिणं अर्धभागं च यो न हन्यात् स हन्यते ॥ ५६ ॥ एवं ससल्ल (शल्य) मंत्री च राजानं मारणोत्सुकः । आगत्य उक्तवान् भूपं ज्ञेत (गन्त ) व्यं सघने तरौ ॥ ५७ ॥ ततः श्रमाकुलो भूपः सुप्तो वै मन्त्रिणोदितः । कपटेनैव मंत्री चमर्प (र्द) ते पादं तत्र वै ॥ ५८ ॥ तस्मिन्नेव तरूर्ध्वं केनाप्यागत्य हेतुना । पूर्वमारुहितो माली ताभ्यां मा लोक्य शङ्कितः ॥ ५९ ॥ प्रच्छन्नीभूय तत्रस्थो यावन्माली विलोकते ।
तावद्वै मन्त्रिणा राजा हतः खङ्गेन पापिना ॥ ६०॥
१ " मचकुन्दपुष्पैः " टिप्पणी । २" अधभागिनम् " टिप्पणी ।
२१
Page Navigation
1 ... 24 25 26 27 28 29 30