Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
सहस्रऋषिता अपूर्वं च मया दृष्टं वाटी भक्षति कर्कटीः। तत्र देशे न वस्तव्यं रक्षको यत्र भक्षकः ॥ ३५ ॥
कीर उवाच । माता यदि विषं दद्यात् पिता विक्रयते सुतम् । राजा हरति सर्वस्वं शरणं किं नखिन् ! वद ॥३६॥
मार्जार उवाच । सागरो मुक्तमर्यादश्चलितो मन्दरो गिरिः । धरणी कम्पमाना च रक्षितुं कः क्षमः शुक ! ॥ ३७ ।।
कीर उवाच । गृहे प्राप्ते च वै राज्ञि युज्यते मित्र ! आदरः। अमृतं विषसंयुक्तं यत्र क्रीडा वधूसमम् ॥ ३८ ॥
राजोवाच । सत्यं सत्यं पुनः सत्यं सत्यं च तव भाषितम् । सुन्दरी मम वधूः कीर ! पुत्रो वैरोचनो हि मे ॥३९॥ चलितो स्वगृहे राजा द्वारपालं ब्रवीति च।। न पीतं तन्मया वारि देहि मे रत्नकुण्डलौ ॥ ४०॥
द्वारपाल उवाच । जलमध्ये स्थिता गावो पिबन्ति न पिबन्ति वा। गोपालस्तत्र निर्दोषो हारितौ रत्नकुण्डलौ ।। ४१॥ एवं निरुत्तरीभूत्वा गतो राजा स्ववेश्मनि । ततो व्याघुटथ मन्त्री च सम्प्राप्तो नृपसन्निधौ ॥४२॥ नृपोऽपि मानपूर्वं तं विससर्ज गृहं प्रति । मन्त्रिणाऽपि गृहं प्राप्य श्रुतं सम्बन्ध(वृत्तं च) रात्रिजम् ॥४३॥ ग्लानियुक्तोऽपि मन्त्री वै राजानं सेवते भृशम् । तृणैरावेष्टितो वह्निर्दचरो गोपने हि सः॥४४॥ एकदागत्य केनापि वृत्तान्तं वनचारिणाम् । कथितं भूरिभूतानां मृगाणां वैरिणाऽति वै ॥४५॥ श्रुत्वा हृष्टो नृपो यस्माद् भूपानां मृगया प्रिया। गतो तत्रैव शीघ्रं हि पीडयन् जीवं निघृणम् ॥४६॥
Page Navigation
1 ... 23 24 25 26 27 28 29 30