Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 27
________________ २२ सहस्रऋषिकृता एतदनुचितं कार्यं दृष्ट्वा माली प्रकम्पितः । तस्यैव कम्पने शाखा सर्वतः सा प्रकम्पिता ॥ ६१ ॥ शाखाप्रकम्पन ज्ञात्वा मन्त्री मनसि शङ्कितः। हा हा किं चालिता ह्येषा वानरेण नरेण वा ? ॥६२ ॥ भीतो मंत्री वदत्येवं शाखाभेदेन मे ध्रुवम् । मृत्युर्भावी न सन्देहस्ततः शीघ्रं पलायितः ॥ ६३॥ आगत्य मन्त्रिणा प्रोक्तं हृतः केनापि भूपतिः। सुनन्दः स्थापितो राज्ये शोकान्ते भूपनन्दनः॥६४॥ अन्यदा नष्टचर्यायां रात्रौ भ्रमति भूभुजः । तस्मिन्नेव विभावया मालाकारो गृहागतः ॥६५॥ दम्पतीनां च आलापं प्रेमयुक्तं परस्परम् । शृणोति तत्र राजापि कौतुकाकृष्टमानसः ॥६६॥ __ मालनी उवाच । यथा स्मरति गौर्वत्सं चक्रवाकी दिवाकरम् । सती स्मरति भर्तारं य(त)थाऽहं तव दर्शनम् ॥ ६७ ॥ माली उवाच । पद्मपत्रविशालाक्षि ! पूर्णचन्द्रनिभानने ! । दहन्ती तिष्ठति मां च शाखा वैरोचनं यथा ॥१८॥ मालनी उवाच । कथं वैरोचनं शाखा चित्तं दहति ब्रूहि मे । यथा जानाम्यहं कान्त ! कीदृशी तव वल्लभा ।। ६९ ॥ माली उवाच । एतन्मा पृच्छ हे कान्ते! रात्रौ वक्तुं न युज्यते । कुर्वतोरीदृशं वाक्यं आवयोमरणं ध्रुवम् ॥ ७० ॥ दिवा निरीक्ष्य वक्तव्यं रात्रौ नैव च नैव च । सञ्चरन्ति महाधूर्तास्तरौ वैरोचनं यथा ॥ ७१ ॥ मालनी उबाच । रहस्यं वर्तते कान्त ! रात्रौ कोऽपि न विद्यते । मच्चित्तमुत्सुकं पातुं श्रवणे वाक्यमद्भुतम् ॥७२॥ माली उवाच । प्रधानो भूमिपालश्च द्वावेव क्रीडनं गतौ । प्रधानेन हतो राजा मया शाखा प्रकम्पिता ॥७३॥

Loading...

Page Navigation
1 ... 25 26 27 28 29 30