Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 12
________________ नन्दोपाख्यानम् दृढं गृहीत्वा धम्मिलं हृतं छुरिकया शिरः। चम्पकोपरि स्वस्थेन बटुना पुष्पचायिना ॥ ६७॥ दृष्टोऽमात्योऽन्तकस्ताहक येन राजा निपातितः। महाभयवशाद् विप्रो झम्पापातं चकार सः॥६८॥ झम्पान्दोलितवृक्षस्य दृष्टा शाखा च मन्त्रिणा । तावत् मन्त्रिणा विचारितम् । शाखा प्रकम्पिता येन वानरेण नरेण वा । अचिरेण त्रिकालेन शाखाभेदे विनश्यति ॥ ६९ ॥ तदा तेन वैरोचनेन उत्थाय सकला वृक्षाः शोधिताः । महाभयात् सकलपुष्पवाटिकाः संशोधिताः । कोऽपि न दृष्टः । तदा निःश्वासो मुक्तः । पृथिव्यां पतितः। हा हा ! सहसा मया किं कृतम् । असंभाव्यं न कर्तव्यं धीमतापि कदाचन । कदा करोति यो दैवादसौ शीघ्रं विनश्यति ॥ ७० ॥ तदागतो मन्त्री । राजानं निबिडवस्त्रेण बन्धयित्वा कूपमध्ये निक्षिप्य उपरि शिला पातिता । राज्ञश्वाश्वः कृत्वा बन्धमोक्षमरण्ये मुक्तः । अपराहणे गते सूर्ये गतो मन्त्री स्वके पुरे । राज्यचक्रं पुरो दृष्टं उद्वेगाकुलचेतनम् ॥ ७१॥ राजद्वारं गतोऽमात्यः प्रतिहारमपृच्छत । राजा चात्र समायातो न दृष्टोऽयं मयाऽधुना ॥ ७२ ॥ ब्रुवन्तं मन्त्रिणं दृष्ट्वा राजलोका उपागताः। राज्ञः पुत्रोऽपि तत्रैव पृच्छति स्म पुनः पुनः ॥७३॥ राजलोका ऊचुः। यदा शूकरपृष्ठस्थो राजा त्वं च विनिर्गतः। पृष्ठे स्थिता तदा सेना न राजा त्वं च शूकरः॥ ७४ ॥ न दृश्यते तदा राजा पदमार्गों न लभ्यते । मूढा इव स्थिता सेना पृच्छति स्म परस्परम् ॥ ७५ ॥ यादृशी विधवा नारी राहुग्रस्तेन्दुशर्वरी। नन्दराज्ञा विहीना च सेना तादृग् विराजते ॥ ७६ ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30