Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 10
________________ नन्दोपाख्यानम् एवं मत्वा तदा राजा गतोऽसौ निजमन्दिरम् । एवं च पूर्ववृत्तान्तं शुकेनैव निवेदितम् ॥ ४० ॥ सुन्दरी शुकसाय च वैरोचनगृहेषु च । क्रीडन्ति विविधेच्छाभिर्वैरोचनप्रसादतः ॥ ४१ ॥ एकस्मिन् दिवसे मन्त्री गतोऽसौ राजमन्दिरम् । पूजितस्तत्र नन्देन दुकूलैर्हेमभूषणैः ॥ ४२ ॥ साधु साधु महामात्य ! शत्रवो मम घातिताः । वनमाली तदा तत्र प्रोवाच नृपसत्तमम् ॥ ४३ ॥ आरामिक उवाच । राजन् ! त्वदीये वास्तव्ये आरामं च विनाशितम् । बलिष्ठेन वराहेण कदलीस्तम्भः पातितः ॥ ४४ ॥ गजाश्वरथसेनाभिः राजा मन्त्री च सेवकाः । निर्ययुः शूकरार्थं च यत्र वृक्षा निपातिताः ॥ ४५ ॥ शूकरे तैः परिवृते राज्ञोऽग्रे शूकरो गतः । राज्ञाश्वः प्रेरितः पृष्ठे राज्ञः पृष्ठे विरोचनः ॥ ४६ वाराहः प्रेरितो दैवाद् गतो सौगदनं वनम् । गता सेना पृथक् राज्ञः पूर्वकर्मविरोधतः ॥ ४७ ॥ ते च शूकरे चैव आगतौ पुष्पवाटिकाम् । श्रान्तौ दिशो न जानीतः पूर्वकर्मविमोहितौ ॥ ४८ ॥ मध्याह्ने सति तापस्थे क्षुत्तृषार्दितमानसौ । न्यग्रोधे बहुलच्छाये गतौ द्वौ राजमन्त्रिणौ ॥ ४९ ॥ तृषाकान्तो महामन्त्रिन् ! उदकं नैव लभ्यते । एवं श्रुत्वा ततो मन्त्री वृक्षाग्रे चटितस्तदा ॥ ५० ॥ मन्त्रिवाक्यम् । दृश्यन्ते बहवो वृक्षाः पत्रपुष्पफलाविन्ताः । कसारसनिर्घोषास्तत्र तोयं च विद्यते ॥ ५१ ॥ राजोवाच । गच्छ शीघ्रं च भो मंत्रिन् ! उदकं यत्र तिष्ठति । एव श्रुत्वा गतो मन्त्री यत्र वृक्षाः सपक्षिणः ॥ ५२ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30