Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 14
________________ नन्दोपाख्यानम् मन्त्रिणोक्तम् । कदा राजा मृतो नास्ति कदा देशान्तरं गतः । कदा केन गृहीतो वा किमर्थं वह्निसेवनम् । ॥ ८४ ॥ एवं मन्त्रिणा वैरोचनेन बोधिता सती नन्दा राज्ञी। मनसि सत्यं कल्पितम् । तः पश्चात् तेन वैरोचनेन सकलराजकुलं समस्तपरिषदो बोधयित्वा राज्ञो नन्दस्य स्थाने वरसिंहासने राज्ञो नन्दकस्य तिलकं कृत्वा समस्तराजकुलसहितेन तेन प्रणामः कृतः। वं कृत्वा गतो मन्त्री निजावासे । नन्दको राजा अतिरुचिरां राज्यश्रियं करोति । स्य राज्ञो बुद्धिदाता वैरोचनः । एकस्मिन् दिवसे रात्रौ राजा विनिःसृतो बहिः। रूपप्रावरणं कृत्वा शृणोति च शुभाशुभम् ॥ ८५॥ एकाकी सकले मार्गे अतिप्रच्छन्नचेष्टया । भ्रमंस्तु नन्दको राजा पुरद्वारे कदाचन ॥८६॥ मुहूर्तमेकं राजा तत्रोपविष्टः। तावन्नगराद् बहिः कस्यापि बाक्यं श्रुतम् । एकामनसा श्रुतं तदा । बाह्यपुरुषेण पुनरुक्तम् । माता नास्ति पिता नास्ति नास्ति भ्राता कुटुम्बकः। एकाकिनी च मे भार्या कथं रात्रि नयिष्यति ॥ ८७ ॥ पुनरुक्तम् । पद्मपत्रविशालाक्षी नगरे वसति कामिनी । सा मे दहति गात्राणि शाखा वैरोचनं यथा ॥ ८८॥ इति श्रुत्वा तदा राजा वेगेनोत्थितः । राजोवाच। त्वं कः। भूतः प्रेतः पिशाचो वा रक्षो यक्षोऽथ किन्नरः । पान्यो वा तस्करो वाऽथ किमर्थं चात्र तिष्ठसि ॥ ८९ ।। बाह्यपुरुषेणोक्तम् । नाहं भूतः पिशाचो वा रक्षो यक्षोऽथ किन्नरः । तस्करः पथिको नाहं बटुको नन्दकस्य च ॥ ९० ॥ नन्दाथै सुरपूजार्थं पुष्पार्थं च वनं गतः। पुष्पं गृह्य यदायातो दत्तं द्वारेषु तालुकम् ॥ ९१ ॥ उक्तानि बहुवाक्यानि द्वारपालस्य चाग्रतः। तथाप्यनेन नो मुक्तस्तस्मादत्रापि संस्थितः॥९२॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30