Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
नन्दोपाख्यानम्
सुभटेनोक्तम् | हा ! दैवेन किं कृतम् । अद्य क्व गमिष्यामि । एवं चिन्तयित्वा केनचिद् आत्मघातः कृतः । सर्वेऽपि आत्मघातं कर्तुमुद्यताः । पश्चाद् विबुधजनैर्बोधिताः, भो भो एतन्न करणीयम् । आत्मघातः कातराणां परन्तु स्त्रीणां विधेयः । न ज्ञायते कुत्र गतः स राजा । परस्परं विमृश्य सेना निवर्तिता ।
वैरोचनेनेोक्तम् ।
तदा शूकरपृष्ठस्थो निःसृतश्च मया सह । जवीयान् राजतुरगोऽन्तरितोऽहं तदा पथि ॥ ७७ ॥ ततः पश्चान्न जानामि राजा केन पथा गतः ।
शोधितं तद्वनं सर्वं न दृष्टौ नृपशूकरौ ॥ ७८ ॥ विमृष्टं च मया तावत् कदा प्राप्तः पुरं नृपः । तस्मादहं समायातो नास्ति नन्दो वने गृहे ॥ ७९ ॥
तावत् तस्मिन्नवसरे राजासनस्याश्व आगतः । तदुपरि राजा नास्ति । एतत् कीदृशम् । कथमश्वेन राजा पातितः । कथं केन गृहीतः । कथं केन हतः । कथं विश्रमिते राज्ञि करादवो नष्टः । एवं विचारिते सति सर्वे राजलोका नन्दराज्ञी तस्याः पुत्रो नन्दको मन्त्रिणा समं गाढं रुरोद । हा ! दैवेन किं कृतम् । अतीवाक्रन्दयन्ति । लुण्ठन्ति । कचान् त्रोटयन्ति । हृदयं मुष्टिना ताडयन्ति । एवमुग्रं सकलनगरे विस्वरं जातम् । तदा वचनो मूर्च्छया विमोहितः । तदा तत्र मन्त्री विबुधजनैर्बोधितः । हे वैरोचन ! शृणु, सावधानो भव ।
गतं मृतं विनष्टं च नैव शोचन्ति पण्डिताः ।
अयोग्यं रोदनं धीर ! राज्यचिन्तां कुरुष्व च ॥ ८० ॥ धीमद्भिर्बोधतो मन्त्री गतोऽसौ यत्र नन्दकः । नन्दकं बोधयित्वा च तदा राज्ञीं प्रबुध्य च ॥ ८१ ॥ त्वं पिता जननी मे त्वं त्वं मे भ्राता सहोदरः । नन्दकस्तव पुत्रोऽयं प्रत्यङ्गं च नृपस्य मे ॥ ८२ ॥ एवं पृथक पृथक सर्वे राजलोकाः प्रबोधिताः ।।
राज्ञीवाक्यम् । भो भो मन्त्रिन् ! अहमस्मिन् संसारे न तिष्ठामि । अहं सप्तजिहूवं सेवयिष्यामि । मन्त्रिणोक्तं कस्मात् । राज्ञ्या कथितम् ।
विना भर्त्रा च या नारी भुञ्जीत पिबतेऽपि च ।
सा नारी पतिता प्रोक्ता तस्माद् वह्नि च सेवये ॥ ८३ ॥
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30