Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
नन्दोपाख्यानम्
सुन्दर्युवाच । हे नाथ ! यद्येवमस्ति तर्हि मदीयं वाक्यं शृणु । त्वदीयोपार्जितं द्रव्यं दत्तं मुफ्तं त्वया न च । न भोक्ष्यन्ति सुतास्ते च सर्व नेष्यति नान्दकिः ॥ १०१ ॥
उक्तं च। दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुते तस्य तृतीया गतिर्भवति ॥ १०२ ॥ विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च।
व्याधितस्यौषधं मित्रं धर्मों मित्रं शुभाशुभे ॥ १०३ ॥ एवं श्रुत्वा वैरोचनेनोक्तम् । सत्यं साधु सुन्दरि ! तदा वैरोचनेन यत्किञ्चिद् द्रव्यं यानि कानि वस्तूनि गजाश्वरथकाञ्चनानि सर्व विप्रेभ्यो दत्तम् । तदा सर्वैः पुत्रैरुक्तम् । हे तात ! सर्वस्वं कस्माद् विप्राणां दत्तम् । तदा वैरोचनेन सर्व वृत्तान्तं पुत्राणामग्रे कथितम् । तदा पुत्रैरङ्गीकृतं तद् । भवद्भिरुचितं कृतम् । तदा वैरोचनेनोक्तं पुत्राणामग्रे । कदा तत्र गतादनु राजा एतस्य कारणस्य प्रश्नं करिष्यति । तदाहं सत्यं कथयिष्यामि । तदनु त्रयाणां पुत्राणां मध्यादेकः कोऽपीदृशो भविष्यत्यः खड्गेन मदीयं शिरश्छिनत्ति । तदनु भवदीयं राज्यम् । एवं पितुर्वाक्यं श्रुत्वा वृद्धपुत्रेणोक्तम् ।
पिता वै सर्वतीर्थाणि पिता देवो जनार्दनः ।
पितृभषितः सदा पुंसां तीर्थदेवार्चनाधिका ॥ १०४ ॥ तस्मान्न हनिष्यामि । तहि त्वं याहि । तदा वैरोचनस्य प्रणामं कृत्वा वृद्धपुत्रो निष्क्रान्तः। द्वितीयेनोक्तम् ।
तेन राज्येन किं कार्य पिता यत्र च हन्यते ।
वैरभावं करिष्यामि त्वां हि यो घातयिष्यति ॥१०५॥ त्वं हि याहि । प्रगामं कृत्वा सोऽपि निष्क्रान्तः । लघुपुत्रेणोक्तम् । हे तात ! तस्मिन्नवसरे तव वाक्यादहं खड्गेन तव शिर छेदयिष्यामि । तदनु यक्तिश्चिद् भवति तद् भवतु । वैरोचनेनोक्तम् । साधु पुत्र ! त्वम् । हे भार्ये सुन्दरि ! त्वया पुत्रस्यास्य गर्भसमये को दृष्टः। तयोक्तम्। स्वामिन् ! प्रहरकश्चाण्डालो दृष्टः। एतत् त्सत्यम् । तदा वैरोचनो मन्त्री भार्यायाः सुन्दर्याः शिक्षापनां दत्वा त्रिभिर्दूतैः सह लघुपुत्रेण समं राज्ञः सकाशं गतः । तदा वैरोचनेन साक्षात् कालसदृशो दृष्टः । तदा राज्ञोक्तम् ।
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30