Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
नन्दोपाख्यानम् देवसस्य प्रथमप्रहराधैं गतम् । तदा नान्दकिना राज्ञा वैरोचन आकारितः । उक्तं च है वैरोचन ! क्रीडार्थमद्य पुष्पवाटिकायां गच्छामः । त्वयापि मया सह आगन्तव्यम् । वैरौचनेनोक्तम् । आगमिष्यामि । ततः पश्चाद् राजा वैरोचनश्च सजीभूत्वा स्वस्वसेनासहितौ नगराद् बहिरेकत्र मिलित्वा पुष्पवाटिकां प्रति निःसृतौ । तदा नान्दकेन राज्ञा पर्वापि सेना विलोकिता । ततः पश्चाञ्चिन्तितम् ।
. यादृशी मम सेना च सेना तादृग् विरोचनी ।।
___गजाश्वरथतुल्यो मे भयतुल्यो भयंकरः ॥ ९६ ॥ एवं चिन्तयित्वा ततः पश्चाद् राजा तत्र स्थितो निवर्तितः। सर्वे पुरवासिनः सेवकाः स्वं स्वं स्थानं गताः । राजा गतो निजावासे । वैरोचनोऽपि गृहं गतः । सुन्दर्युवाच वैरोचनं प्रति । हे नाथ ! न ज्ञायते किं भविष्यति ।
गृहगोधातिकृष्णा च पतिता मम मस्तके ।
उलूकश्चाधुना दृष्टः सदनोपरि संस्थितः ॥९७ ॥ एवं सुन्दर्या वैरोचनस्याग्रे निवेदितम् । तदा नान्दकिना वैरोचनस्याकारणार्थ दत एकः प्रेषितः समायातः । तेनोक्तम् । भो वैरोचन! राजा नन्दकिस्तवाकारयति । वैरोचनेनोक्तं कस्मात् । तदा द्वितीयो दूतः समायातः। तेनाप्येवमुक्तम् । पुनर्वैरोचनेनोक्तम् । ईदृशं किं कार्य यदा एवं चिन्तयति । तदा तृतीयो दूतः समायातः । तृतीयेनाप्येवं कथितम् । तदा वैरोचनेन सुन्दरी प्रत्युक्तम् । हे सुन्दरि! शृणु सावधाना। न ज्ञायते केन कारणेन राज्ञा शीघ्र शीघ्रमाकारण मुक्तमस्ति । मयापि पूर्व राजा चिन्ताप्रपन्नो दृष्टः । यदा पुष्पवाटिकायां क्रीडाथै निःसरता राज्ञा अर्धमार्ग गतवता सर्व सैन्यं विलोकितं तदा मया चिन्ताप्रपन्नो दृष्टः । परन्तु हे सुन्दरि ! अस्मदीये मनसि सुखदुःखविभोगिनी भार्या त्वम् । वयं तवाग्रे एकं गोप्यं कथयिष्यामः । कदाचित् तेन कारणेन राजा पुनः पुनरप्याकारयति । सुन्दर्युवाच । तत् किं गुह्यम् ।
वैरोचन उवाच । पूर्वमभ्यागतो राजा त्वदर्थे चैव सुन्दरी । तेन पूर्वविरोधेन मया नन्दो निपातितः ॥ ९८ ॥ परन्तु वाप्यां श्लोकार्थे मया राजा निपातितः । नरेण वानरेणापि तदा शाखा प्रकम्पिता ॥ ९९ ॥ तेन शाखाप्रभावेण नृपेणाकारितो ह्यहम् । एतद् गुह्यं च मे भार्ये ! तवाग्रे विनिवेदितम् ॥१०॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/82fb0c910ca7d9b90854f15d98855470e67a05d59c1701d2f4524f69dfbda9f0.jpg)
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30