Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
नन्दोपाख्यानम्
दूत उवाच। उत्पन्नकथितं श्रुत्वा कदलीवनं निपातितम् । असम्भाव्यं च वाराहः आरामे च वने गतः ॥२०॥
प्रधान उवाच । दृश्यन्ति बहुला वृक्षाः पुष्पपत्रसमन्विताः। काककोइलशब्दोऽस्ति तत्र तोयं भविष्यति ॥ २१ ॥ तुल्यार्थ तुल्यसामर्थ्य मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं भृत्यं यो न हन्यात् स हन्यते ॥२२॥ आरण्ये निर्जले देशे वापी तिष्ठति पूर्णताम् । पानीयस्य विकारेण किं तस्य चलितं मनः ॥ २३ ॥ शाखा प्रकम्पिता येन वानरेण नरेण वा ।
अचिरेणैव कालेन शाखाभेदे विनश्यति ॥ २४ ॥ । कमलदलसुनेत्रं हारविस्तीर्णतोयं स्तनतटकृतहंसं रोमराजीतरङ्गम् । मदनगतसुरेन्द्रः शारदापद्मखण्डं सुरपतिरिति सेव्यं कस्य भोः स्त्रीतटाकम् ॥२५॥ प्रयागवटशाखाभिथूणितं येन गात्रं रणमुखगजदन्ते येन भिन्नं शरीरम् । बहुकुसुमसुगन्धैः पूज्यते येन शम्भुः सुरपतिरिति सेव्यस्तस्य भोः स्त्रीतटाकः ॥२६॥
मालिन्युवाच । कि मां पृच्छसि भर्तार : मातृसुतस्तथा पुनः । न सुखं च तथा दृष्टं किं पृच्छसि पुनः पुनः ॥ २७॥ छन्दोलक्षणसम्पूर्णा सुभाषितविभूषिता । वनान्ते कथिता वार्ता अहं चैव चनं गता ॥२८॥ मा पुनः पृच्छसि कान्ते शर्वरीप्रहरद्वयम् । अपृच्छामेव वक्तव्यं मरणाय ध्रुवं भवेत् ।। २९ ॥ प्रधानो राजपुत्रेण उभयौ द्वौ तुरङ्गमौ । वैरोचनेनाहतो नन्दो मया शाखा प्रकम्पिता ॥ ३० ॥ पद्मपत्रविशालाक्षी हृदये वसति कामिनी । सा मे दहति गात्राणि शाखा वैरोचनं यथा ॥ ३१ ॥ वैरं वर्षसहस्राणि वैरोचनस्य जायते ।।
उदरे च स्थितो राजा तेन कुक्षिः प्रवीक्ष्यते ॥ ३२ ॥ इति श्रीनंदवत्रीसी समाप्ता ॥ लखितं पं. तत्त्वविजयगणिना ॥
Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30