Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
नन्दोपाख्यानम्
कीर उवाच। अपूर्वोऽयं मया दृष्टो वाटी भक्षति कर्कटीम् । तत्र देशे न वास्तव्यं रक्षको यत्र भक्षकः ॥ १० ॥
राजोवाच । यस्मिन् रुष्टे भयं नास्ति तुष्टे नैव धनागमः। निग्रहाऽनुग्रहो नास्ति स रुष्टः किं करिष्यति ॥ ११ ॥
शुक उवाच । माता यदि विषं दद्यात् पिता विक्रयते सुतम् । राजा हरति सर्वस्वं का तत्र परिदेवना ॥ १२ ॥
नार्युवाच । त्वं किं क्रन्दसि मार्जार ! राजा नन्दो न तस्करः। अमृताद् विषमुत्पन्नं यतो रक्षास्ततो भयम् ।। १३॥
शुक उवाच । पुत्रगृहे गतो राजा नादरं किं करिष्यसि । मा क्रन्दसि मार्जारि : नन्दकुलवधूर्यथा ॥ १४ ॥
राजोवाच । सत्यं सत्यं पुनः सत्यं सत्यं च कीरभाषितम् । मम कुलवधूः पुत्री मम पुत्रो विरोचनः ॥ १६ ॥ अमृतं मधुसंयुक्तं वाणिपुत्र ! तव गृहे। न पीत राजपुत्रेण देहि मे रत्नकुण्डलम् ॥१६॥
। प्रतिहार उवाच । जलमध्ये स्थिता गावः पिबन्ति न पिबन्ति च । गोपालास्तत्र निर्दोषा हारितं रत्नकुण्डलम् ॥ १७ ॥
कीर उवाच । तृषाक्रान्तो गतो हस्ती पानीयं पातुमिच्छया । दृष्ट्वा सिंहपदं तत्र न पीतं वारि शीतलम् ॥ १८ ॥
राजोवाच । सत्यं सिंहपदं तत्र पानीयं पातुमुद्यतः। श्रूयते शुकवाक्येन न पीतं वारि शीतलम् ॥ १९ ॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/11b55c0875a711a3a11128c4f22530d6658988e831a7d0610517b419d042bf26.jpg)
Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30