Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
नन्दोपाख्यानम्
१३
रे वैरोचन ! दुरात्मन् ! पापिष्ठ ! विश्वासघातक ! चाण्डाल ! राजा त्वया कुत्र मुक्तः । -मन्त्रिणा विमृष्टम् ।
तावद् भयाच्च भेतव्यं यावद् भयमनागतम् । आगतं तु भयं दृष्ट्वा प्रहर्तव्यमशङ्कितैः ॥ १०६ ॥
वैरोचनेनोक्तम् । राजन् ! यावदमात्यस्य हृदये राजा दुःसहो भवति तावद् येन नाप्युपायेन राजा मरणं याति । अमात्येन तदुपायः करणीयः । अतः कारणाद् राजा निपातितः । पुष्पवाटिकायां कूपमध्ये प्रक्षिप्तः । तदा वृक्षस्य शाखा प्रकम्पिता । तस्य शाखाभेदोऽयम् । तदा वैरोचनपुत्रेणोक्तम् । रे दुरात्मन् वैरोचन ! राजा नन्दस्त्वया निपातितः । तदा तेनोक्तं मया निपातितः । तदा वैरोचनस्य पुत्रेण खडूगं गृहीत्वा वैरोचनस्य शिरश्छिन्नं भूमौ पातितं च । तदनु तेन पुत्रेण पितुश्छिरः पादप्रहारेणाहतम् । एवंविधे वर्तमाने राज्ञा केऽपि सुभटा वैरोचनस्य गृहे धनहरणार्थं प्रेषिताः । तानागतान् दृष्ट्वा सुन्दर्या गृहमध्ये प्रविश्य द्वारे वह्निर्मुक्तः । सा प्रज्वलिता । तैरागत्य राजा विज्ञापितः । महाराज ! वैरोचनगृहे हेमवस्त्रादिकमपि नास्ति । सर्वं विप्राणां पूर्वदत्तम् । सुन्दर्यपि प्रज्वलिता गृहमध्ये । तदा एवंविधानि वाक्यानि श्रुत्वा तेन पुत्रेण मरणार्थं स्वकीये कण्ठे तदेवं खड्गमारोपितम् । तदा वेगेन राजा समुत्थितः । तस्य हस्तात् खड्गं गृहीत्वा तं प्रति उवाच । हे मन्त्रिपुत्र ! त्वं साधु मे राज्यधर्मः कृतः । पितुः करुणा न चिन्तिता । पश्चात् तेन राज्ञो वचनादात्मीयं शिरो न छिन्नम् । तदा तेन राज्ञा मन्त्रिपुत्रस्य मुद्राऽर्पिता । वैरोचनस्तीर्थे प्रेषितः । पश्चाद् राजा सुखी संजातः । वैरोचनस्य पुत्रो राज्ञो नान्दकेः प्रसादेन राज्ये सर्वमुद्रां करोति । तदनु राजा नान्दकिरिन्द्रतुल्यं राज्यं कुरुते ।
इति नन्दोपाख्यानं समाप्तिं पकाण । संवत् १७३१ वर्षे भाद्रवमासे शुक्लत्रयोदश्यां देवेन लिपिकृतम् ।
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30