Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 11
________________ नन्दोपाख्यानम् तत्र दृष्टा महावापी उदकेन प्रपूरिता । कं पीत्वा पश्यता वापी श्लोक एको व्यदृश्यत ॥ ५३॥ 'तुल्याथै तुल्यसामर्थ्य मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं भृत्यं यो न हन्यात् स हन्यते' ॥५४॥ श्लोकस्याथै विमृश्यैव मत्री विस्मयमागतः । आगमिष्यति वै राजा तस्मात पडून लेपितः॥ ५५ ॥ जलमादाय पात्रेण गतोऽसौ राजसंनिधौ । पीत्वा तु शीतमुदकं कुत्र मन्त्रिन् ! हि वापिका ॥ ५६ ॥ तत्र मुक्तस्तदा मन्त्री गतो राजा तु वापिकाम् । दृष्टा नापी विचित्रा यल्लिपिः पङ्कविलेपिता ॥ ५७ ॥ प्रक्षाल्य पाणिपादौ च जले पङ्कमपातयत् । राज्ञा च पठितः श्लोकः करुणा हृदि चिन्तिता ॥ ५८॥ मद्भयान्मन्त्रिणा एवं श्लोकः पङ्केन लेपितः । निश्चयं हृदये कृत्वा मम पुत्रो विरोचनः ॥ एवं मत्वा ततो राजा गतो यत्र विरोचनः ॥ ५९॥ शुभ्रं चाम्रफलं मन्त्रिन् ! शुभ्रा वापी सुशीतला। न दृष्टो मानवः कोऽपि मया तत्र विरोचन ! ॥६०॥ मद्भीत्या च त्वया श्लोकः कस्मात् पङ्केन लेपितः । एवं श्रुत्वा ततो मन्त्री भीतोऽसौ हृदिमध्यतः ॥ ६१ ॥ अस्ति राज्यं नृपसमं गजाश्वरथपत्तयः । श्यामास्यं मन्त्रिणं दृष्ट्वा राजा वचनमब्रवीत् ॥ ६२॥ तद् राज्य कीदृशं भ्रातर् ! न ह्यमात्यो नृपैः समः । एवमुक्त्वा ततो राजा उत्सङ्गे मन्त्रिणस्तदा । ६३ ॥ प्रसुप्तो दैवयोगेन अतिनिद्राविमोहितः । सोऽपि निद्रावश यातो मन्त्रिणा हृदि चिन्तितम् ॥ ६४॥ सुन्दर्य्यर्थेऽभवत् पूर्व दुष्टबुद्धिः सदा नृपः। पुनः श्लोकस्य वाप्यां हि दृष्टोऽर्थश्च दुरात्मना ॥६५॥ इदानी न हनिष्यामि पश्चाद् राजा हनिष्यति । एवं मत्वा ह्यमात्येन विरोधं पूर्वमुत्तरम् ॥ ६६ ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30