Book Title: Nanodopakhyana Author(s): Rajasthan Prachyavidya Pratishthan Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur View full book textPage 9
________________ नन्दोपाख्यानम् अमृतं मधुसंयुक्तं वणिक्पुत्रगृहे पयः । तत् पित्वा च महाराज ! देहि मे कर्णकुण्डलम् ॥ २८ ॥ राजोवाच । तृषाकान्तो गतः पान्थो नीरं यत्र प्रवर्तते । सदोषं दृश्यते तत्र न पीतं वारि शीतलम् ॥ २९ ॥ दूतिकोवाच । जलमध्ये स्थिता गावः पिबन्ति न पिबन्ति वा । गोपालास्तत्र निर्दोषा हारितं कर्णकुण्डलम् ॥ ३० ॥ राजोवाच । सत्यं सत्यं पुनः सत्यं वचनं दूतिभाषितम् । शुकवाक्यं मया श्रुत्वा न पीतं वारि शीतलम् ॥ ३१ ॥ राज्ञश्च वचनं श्रुत्वा दूत्या मनसि चिन्तितम् । हस्ती कर्णे गृहीतो हि न गच्छति कदाचन ॥ ३२ ॥ यत्कार्ये प्रेषितो मन्त्री कार्यं कृत्वा समागतः । नृपवैरिकुलं जित्वा संप्राप्तो निजमन्दिरम् ॥ ३३ ॥ गृहाङ्गणगतो मन्त्री श्रुत्वा शुकवचस्तदा । मन्त्री तत्र गतः शीघ्रं पृष्टः कीरो यथायथा ॥ ३४ ॥ कम्पस्वेदाङ्गसंयुक्त तदा वचनमब्रवीत् ॥ शुकवाक्यम् । यत् त्वं पृच्छसि मे तात ! यत् पूर्वं वै कथानकम् । तत सर्वं कथयिष्यामि नन्दराज्ञा च यत्कृतम् ॥ ३५ ॥ एकस्मिन् दिवसे तात ! नन्दो राजा समागतः । दृष्टो राजा तदाऽस्माभिः कामाकुलितचेतनः ॥ ३६ ॥ द्वारे समागतं दृष्ट्वा सारी चुक्रोध वै भृशम् । तदा मया च यद् युक्तं तत् तदुक्तं तवाग्रतः ॥ ३७ ॥ तव भार्या च सा साध्वी श्वसुरः कथितो नृपः । एतद्वाक्यौषधेनैव कामव्याधिर्विदारितः ॥ ३८ ॥ निरामयस्थितो राजा हा दैव ! धिक् कृतं मया । वैरोचनः सुतोऽस्माकं सुन्दरीयं वधूर्मम ॥ ३९ ॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30