Book Title: Nandisutram Avchuri
Author(s): Devvachak, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 162
________________ नन्दिसूत्रम् ॥१६०॥ अपेक्षया जीव इव, अव्यवच्छित्तिप्रतिपादनपरो नयः तस्य अर्थो अव्यवच्छित्तिनयार्थो, द्रव्यमित्यर्थः, तद्भावः तत्ता तया द्रव्यापेक्षया इत्यर्थः, किमित्याह-अनाद्यपर्यवसितं त्रिकालावस्थायित्वात् जीववत्, अधिकृतं एव अर्थ द्रव्यक्षेत्रादिचतुष्टयं अधिकृत्य प्रतिपादयति । 'तत्' श्रुतज्ञानं 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्तं, तद्यथा - द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतो 'णमिति वाक्यालंकारे सम्यक् श्रुतं एकं पुरुषं प्रतीत्य सादिपर्यवसितं कथमिति चेद् ?, उच्यते । सम्यक्वाप्तौ तत् प्रथमपाठतो वा सादि, पुनः मिध्यात्वप्राप्तौ सति वा सम्यक्त्वे प्रमादभावतो महाग्लानत्वभावतो वा परलोकगमन संभवतो वा विस्मृर्ति उपगते केवलज्ञानोत्पत्तिभावतो वा सर्वथा विप्रनष्टे सपर्यवसितं । बहून् पुरुषान् कालत्रयवर्त्तिनः पुनः प्रतीत्य अनादिअपर्यवसितं संतानेन प्रवृत्तत्वात्, कालवत्, तथा क्षेत्रतो 'णं' इति वाक्यालंकारे पंच भरतानि पंच ऐवतानि प्रतीत्य सादिसपर्यवसानं, कथं १, उच्यते, तेषु क्षेत्रेषु अवसविण्यां सुखमदुःखमापर्यवसाने उत्सर्पिण्यां तु दुःखमसुखमाप्रारंभे तीर्थकर धर्म्मसंधानां प्रथमतया उत्पत्तेः सादि, एकांतदुःखमादौ च काले तदभावात् सपर्यवसितं । तथा महाविदेहान् प्रतीत्य अनादि अपर्यवसितं तत्र प्रवाहापेक्षया तीर्थकरादीनां अव्यवच्छेदात्, तथा कालतो 'णं' इति वाक्यालंकारे, अवसर्पिण्यां उत्सर्पिण्यां च प्रतीत्य सादिसपर्यवसितं तथाहि अवसर्पिण्यां तिसृष्वेव समासु सुखमदुःखमादुःखमसुखमा दुःख मारूपासु, उत्सर्पिण्यां तु द्वयोः समयोः दुःखमसुखमा सुखमदुःखमारूपयोः भवति न परतः, ततः सादि सपर्यवसानं अत्र उत्सर्पिपणिअवसर्पिणी स्वरूपज्ञापनार्थ कालचक्रं विंशतिसागरोपम कोटाकोटी प्रमाणं विनेयजनानुग्रहार्थं यथा मूलवृचिकृता दर्शितं तथा वयं अपि दर्शयामः - चत्तारिसागरोत्रम कोडाकोडीउ संतई ए उ । एगं तसुस्समा खलु जिणेहिं सच्चेहिं निदिट्ठा ॥१॥ इत्यादि, नोत्सर्पिणीं नोवसर्पिर्णी च प्रतीत्य अनादि अपर्यवसितं, महाविदेहेषु हि नोउत्सर्पिणि नोअवसर्पिणीरूपः अवपुरिसमलंकृतम् ॥१६॥

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240