Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
॥२०॥
ROCKMROSAGARMERENCE
अथ कोऽयं अनुयोगः । ? अनुरूपोऽनुकूलो वा योगोऽनुयोगः-सूत्रस्य स्वेनाभिधेयेन सार्द्ध अनुरूपः संबंधः । स च द्विधामूलप्रथमानुयोगो गंडिकानुयोगश्च, इह मूलं-धर्मप्रणयनात् तीर्थकरास्तेषां प्रथम-सम्यक्त्वावाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः । ईश्चादीनां पूर्वापरपर्वपरिच्छिन्नो मध्यभागो गंडिका गंडिका इव गंडिका-एकार्थाधिकाराः ग्रंथपद्धतिः इत्यर्थः । | तस्या अनुयोगो गंडिकानुयोगः । अथ कोऽयं मूलप्रथमानुयोगः ? आचार्य आह-मूलप्रथमानुयोगेन अथवा मूलप्रथमानुयोगे णं इति वाक्यालंकारे अर्हतां भगवतां सम्यक्त्वभवात् आरभ्य पूर्वभवात् देवलोकगमनानि तेषु पूर्वभवेषु देवभवे यत् देवदेवलोकेभ्यः | च्यवनं तीर्थकरभवत्वेन उत्पादः ततो जन्मानि ततः शैलराजे सुरासुरैः विधीयमाना अभिषेका इत्यादि पाठसिद्धं यावत् निगमनम् । अथ कोऽयं गंडिकानुयोगः? सूरिराह-गंडिकानुयोगेन 'ण' इति वाक्यालंकारे, कुलकरगंडिकाः । इह सर्वत्रापि अपांतरालवर्तिन्यो बहव्यां प्रतिनियतैकार्थाधिका रूपा गंडिकाः ततो बहुवचनं, कुलकराणां गंडिकाः कुलकरगंडिकाः, यासु कुलकराणां विमलवाहनादीनां पूर्वभेवजन्मनामादीनि सप्रपंच उपवर्ण्यते । एवं तीर्थकरगंडिकादिषु अपि अभिधानवशतो भावनीयं । 'जाव चित्तंतर गंडिआई' त्ति चित्ता-अनेका अर्थांतरे-ऋपभाजिततीर्थकरअपांतराले गंडिकाः चित्रांतरगंडिकाः, एतत् उक्तं भवति-ऋपभाजिततीर्थकरांतरे ऋषभवंशसमुद्भूतभूपतीनां शेषगतिगमनव्युदासेन शिवगतिगमनानुत्तरोपपात्ते प्राप्तिप्रतिपादिका गंडिकाः चित्रांतरगंडिकाः, तासां च
प्ररूपणा पूर्वाचायैरेवमकारि-इह सुबुद्धिनामा सगरचक्रवर्तिनो महामात्योऽष्टापदपर्वते सगरचक्रवर्तिसुतेभ्यः आदित्ययशःप्रभृतीनां है भगवत् वृषभवंशजानां नरपतीनां एवं संख्यां आख्यातुं उपक्रमते स्म । आदित्ययशःप्रभृतयो भगवत् नामेयवंशजाः त्रिखंडभरताई।
अनुपाल्य पर्यते पारमेश्वरीं दीक्षां अभिगृह्य तत्प्रभावतः सकलकर्मक्षयं कृत्वा चतुर्दशलक्षा निरंतरं सिद्धिमगमन् । ततः एकः सर्वार्थ
RECEष्टक
॥२०३:

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240