Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम् ||
॥२१४॥
नान्यथा, ततः सदावस्थायित्वं तस्य आह-इत्येतत् द्वादशांगं गणिपिटकं न कदाचित् नासीत् , सर्वदा एव आसीदिति भावः, अनादि- ||| अवचूरित्वात् , तथा न कदाचित् न भवति, सर्वदा एव वर्तमानकालचिंतायां भवति इति भावः, सदैव भावान , तथा न कदाचिन्न भविष्यति, समलंकृतम् किन्तु भविष्यचिन्तायां सदा एव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिपे, विधाय
संप्रति अस्तित्वं प्रतिपादयति । अभृद्भवति भविष्यति च इत्येवं त्रिकालावस्थायित्वात् ध्रुवं मेर्वादिवत् । ध्रुवत्वादेव सदा एव | जीवादिषु पदार्थेषु प्रतिपादकत्वेन नियतं पंचास्तिकायेषु लोकवचनवत् नियतत्वादेव च शाश्वतं-शाश्वत् भवनखभावं शाश्वतत्वात् एव सततं गंगासिंधुप्रवाहप्रवृत्तौ अपि पौंडरीकहूद इव वाचनादिप्रदानेऽपि अक्षयं-नास्य क्षयोऽस्ति इति अक्षयं अक्षयत्वात् एव अव्ययं । मानुपोत्तरात् बहिः समुद्रवत् , अव्ययत्वात् एव सदा एव स्वप्रमाणे अवस्थितं जंबूद्वीपादिवत् । एवं च सदा अवस्थानेन चिंत्यमानं नित्यं आकाशवत् । सांप्रतं अत्र एव दृष्टान्तमाह तद्यथा-नाम पंचास्तिकायाः-धर्मास्तिकायादयः न कदाचित् नासीत् इत्यादि पूर्ववत् , 'एवमित्येव' इत्यादि निगमनं निगदसिद्धं । तत् द्वादशांगं समासतश्चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'ण' इति वाक्यालंकारे श्रुतज्ञानी उपयुक्तः सर्वद्रव्याणि जानाति पश्यति, तत्राह-ननु पश्यति इति कथं ?, नहि श्रुतज्ञानी श्रुतज्ञान यानि सकलानि वस्तूनि पश्यति, न एष दोषः ॥ उपमाया अत्र विवक्षितत्वात , पश्यति इति पश्यति । तथा हि| मेरु आदीन पदार्थान् अदृष्टानपि आचार्यः शिष्येभ्यः आलिख्य दर्शयति । ततस्तेषां श्रोतृणां एवं बुद्धिः उपाजयते भगवान् एप गणी ॥२१४॥ साक्षात् पश्यन् इव व्याचष्टे इति । एवं क्षेत्रादिषु अपि भावनीयं, ततो न कश्चिद्दोषः, अन्ये तु न पश्यति इति पठति । तत्र चोद्यस्य अनवकाश एव, श्रुतज्ञानी चेहाभिन्नदशपूर्वधरादिश्रुतकेवली परिगृह्यते, तस्य एव नियमतः श्रुतज्ञानबलेन सर्वद्रव्यादिपरिज्ञानसंभवात् ,

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240