Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम् ॥२१७॥
प्रथमश्रवणे संयमगात्रस्तूष्णीं आसीत् । ततो द्वितीये श्रवणे हुंकारं दद्यात्, वंदनं कुर्यादित्यर्थः, तृतीये वा ढकारं कुर्यात्, बाढं एवमेतत् न अन्यथा इति, ततः चतुर्थश्रवणे तु गृहीतपूर्वापरसूत्रामिमायो मनाक् प्रति पृच्छां कुर्यात्, कथं एतदिति ?, पंचमे मीमांसां प्रमाणजिज्ञासां कुर्यादिति भावः, षष्ठे श्रवणे तत् उत्तरोत्तरगुणप्रसंग ः पारगमनं च अस्य भवति । ततः सप्तमे श्रवणे परिनिष्ठा-गुरुवदनुभाषते । एवं तावत् श्रवणविधिः उक्तः ||४|| संप्रति व्याख्यानविधिं अभिधित्सुराह - 'सुत्तत्थो' इत्यादि, प्रथमानुयोगः सूत्रार्थ:सूत्रार्थ - प्रतिपादनपरः, खलु शब्द एवकारार्थः, स च अवधारणे, ततोऽयमर्थः - गुरुणा प्रथमोऽनुयोगः सूत्रार्थाभिधानलक्षण एव कर्त्तव्यः । माभूत् प्राथमिकविनेयानां मतिमोहः, द्वितीयोऽनुयोगः सूत्रस्पर्शिकनिर्युक्तिमिश्रितो भणितस्तीर्थकरगणधरैः, सूत्रस्पर्शिकनिर्युक्तिमिश्रितं द्वितीयं अनुयोगं गुरुः विदध्यात् इति आख्यातं तीर्थकरगणधरैः इति भावः, तृतीयश्च अनुयोगो निरवशेषः - प्रसक्तानुप्रसक्तप्रतिपादनलक्षणः इत्येषः - उक्तलक्षणो विधिः भवति । अनुयोगे व्याख्यायां आह-परिनिष्ठा सत्तमे इति उक्तं त्रयथ अनुयोगप्रकाराः तदेतत् कथं ? उच्यते, त्रयाणां अनुयोगानां अन्यतमेन केनचित् प्रकारेण भूयो भूयो भाव्यमानेन सप्त वारा: श्रवणं कार्यते ततो न कश्चित् दोषः । अथ किंचित् मंदमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यं न पुनः एष एव सर्वत्र श्रवणविधिनियमः, | उद्घटितज्ञविनेयानां सकृत् श्रवणत एव अशेषग्रहणदर्शनात् इति कृतं प्रसंगेन, तदेतत् श्रुतज्ञानं, तदेतत् परोक्षं ॥ इति ॥
श्रीनन्यध्ययन अवचूरी परिसमाप्तिमगमत् ॥
अवचूरिसमलंकृत
॥२१७॥

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240