Book Title: Nandisutram Avchuri
Author(s): Devvachak, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 218
________________ नन्दिसूत्रम् ॥२१६॥ 'अक्खरसन्नी'त्यादि गतार्था, नवरं सप्तापि एते पक्षाः सप्रतिपक्षाः, ते च एवं-अक्षरश्रुतं अनक्षरश्रुतमित्यादि । इदं च || अवचूरिश्रुतज्ञानं सर्वातिशयरत्नकल्पं प्रायो गुर्वधीनं च ततो विनेयजनानुग्रहार्थ यो यथा च अस्य लाभस्तं तथा दर्शयति-१ 'आगमे' समलंकृतम् त्यादि, आ-अभिविधिना सफलश्रुतविषयव्याप्तिरूपेण मर्यादया वा यथावस्थिलप्ररूपणारूपया गम्यते-परिच्छिद्यते अर्था येन स आगमः, स च एवं व्युत्पत्या अवधिकेबलादिलक्षणोऽपि भवति ततस्तद्व्यवच्छेदार्थ विशेषणांतरं आह-शास्त्रे 'ति शिष्यते अनेन इति शास्त्रं आगमरूपं शाखं आगमशाखं, आगमग्रहणेन षष्टितंत्रादिकुशास्त्रव्यवच्छेदः, तेषां यथावस्थितार्थप्रकाशनाभावतो न आगमत्वात् आगमशास्त्रस्य ग्रहणं आगमग्रहणं यत् बुद्धिगुणैः वक्ष्यमाणैः कारणभूतैः अष्टभिः दृष्ट, तत् एव ग्रहणं श्रुतज्ञानस्य लाभं अवते पूर्वेषु विशारदा-विपश्चिताः धीराः व्रतपालने स्थिराः, किं उक्तं भवति यदेव जिनप्रणीतप्रवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतज्ञानं, न शेपं इति । बुद्धिगुणैः अष्टभिः इत्युक्तं । ततस्तानेव बुद्धिगुणानाह-'सुस्सून' इत्यादि, पूर्व तावत् शुश्रूषते-विनययुक्तो गुरुवदनअरविंदात विनिर्गच्छत् वचनं श्रोतुमिच्छति, यत्र शंकितं भवति तत्र भूयोऽपि विनयनम्रतया वचसा गुरुमनःप्रल्हादयन् पृच्छति । पृष्टे च सति यद्गुरुः कथयति तत्सम्यक व्याक्षेपपरिहारेण सावधानः शृणोति श्रुत्वा च अर्थरूपतया गृह्णाति, गृहीत्वा च ईहते-पूर्वापराविरोधेन पर्यालोचयति । चशब्दः समुच्चयार्थः, अपिशब्दः पर्यालोचयन किंचित स्वयुद्ध्यापि उत्प्रेक्षिते इति सूचनार्थः । ततः स पर्यालोचनानंतरं अपोहते । एवं तत् यदादिष्टं आचार्यण न अन्यथा इति अवधारयति, ततस्तं अर्थ निश्चितं वचेतसि विस्मृत्य भावार्थ सम्यम् X ॥२१६॥ | धारयति, करोति च सम्यग्-यथोक्तं अनुष्ठानं, यथोक्तानुष्ठानं अपि श्रुतज्ञानप्राप्तिहेतुः । तत् आवरणक्षयोपशमनिमित्तत्वात् । तदेवंद | गुणा व्याख्याताः ॥३॥ संप्रति यत शुश्रूपते इति उक्तं तत्र श्रवगविधि आह-'मूकं' इति प्रथमतो मूकं शृणुयात्, किं उक्तं भवति ?

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240