SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् अवचूरिसमलंकृतम् ॥२०॥ ROCKMROSAGARMERENCE अथ कोऽयं अनुयोगः । ? अनुरूपोऽनुकूलो वा योगोऽनुयोगः-सूत्रस्य स्वेनाभिधेयेन सार्द्ध अनुरूपः संबंधः । स च द्विधामूलप्रथमानुयोगो गंडिकानुयोगश्च, इह मूलं-धर्मप्रणयनात् तीर्थकरास्तेषां प्रथम-सम्यक्त्वावाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः । ईश्चादीनां पूर्वापरपर्वपरिच्छिन्नो मध्यभागो गंडिका गंडिका इव गंडिका-एकार्थाधिकाराः ग्रंथपद्धतिः इत्यर्थः । | तस्या अनुयोगो गंडिकानुयोगः । अथ कोऽयं मूलप्रथमानुयोगः ? आचार्य आह-मूलप्रथमानुयोगेन अथवा मूलप्रथमानुयोगे णं इति वाक्यालंकारे अर्हतां भगवतां सम्यक्त्वभवात् आरभ्य पूर्वभवात् देवलोकगमनानि तेषु पूर्वभवेषु देवभवे यत् देवदेवलोकेभ्यः | च्यवनं तीर्थकरभवत्वेन उत्पादः ततो जन्मानि ततः शैलराजे सुरासुरैः विधीयमाना अभिषेका इत्यादि पाठसिद्धं यावत् निगमनम् । अथ कोऽयं गंडिकानुयोगः? सूरिराह-गंडिकानुयोगेन 'ण' इति वाक्यालंकारे, कुलकरगंडिकाः । इह सर्वत्रापि अपांतरालवर्तिन्यो बहव्यां प्रतिनियतैकार्थाधिका रूपा गंडिकाः ततो बहुवचनं, कुलकराणां गंडिकाः कुलकरगंडिकाः, यासु कुलकराणां विमलवाहनादीनां पूर्वभेवजन्मनामादीनि सप्रपंच उपवर्ण्यते । एवं तीर्थकरगंडिकादिषु अपि अभिधानवशतो भावनीयं । 'जाव चित्तंतर गंडिआई' त्ति चित्ता-अनेका अर्थांतरे-ऋपभाजिततीर्थकरअपांतराले गंडिकाः चित्रांतरगंडिकाः, एतत् उक्तं भवति-ऋपभाजिततीर्थकरांतरे ऋषभवंशसमुद्भूतभूपतीनां शेषगतिगमनव्युदासेन शिवगतिगमनानुत्तरोपपात्ते प्राप्तिप्रतिपादिका गंडिकाः चित्रांतरगंडिकाः, तासां च प्ररूपणा पूर्वाचायैरेवमकारि-इह सुबुद्धिनामा सगरचक्रवर्तिनो महामात्योऽष्टापदपर्वते सगरचक्रवर्तिसुतेभ्यः आदित्ययशःप्रभृतीनां है भगवत् वृषभवंशजानां नरपतीनां एवं संख्यां आख्यातुं उपक्रमते स्म । आदित्ययशःप्रभृतयो भगवत् नामेयवंशजाः त्रिखंडभरताई। अनुपाल्य पर्यते पारमेश्वरीं दीक्षां अभिगृह्य तत्प्रभावतः सकलकर्मक्षयं कृत्वा चतुर्दशलक्षा निरंतरं सिद्धिमगमन् । ततः एकः सर्वार्थ RECEष्टक ॥२०३:
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy