SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥ २०२॥ आयनं गमनं परिच्छेद इत्यर्थः तस्मै हितं अग्रायणीयं सर्वद्रव्यादिपरिमाणपरिच्छेदकारीति भावार्थ:, तथा हि-तत्र सर्वद्रव्याणां पर्यायाणां सर्वजीवविशेषाणां च परिमाणं उपवर्ण्यते, तस्य पदपरिमाणं पण्णवतिः पदशतसहस्राणि । तृतीयं पूर्व 'विरियं' ति पदैकदेशे पदसमुदायोपचारात्' वीर्यप्रवादं, 'कर्म्मणोऽण' इति अणू प्रत्ययः, तस्य पदपरिमाणं सप्ततिपदशतसहस्राणि चतुर्थ अस्ति | नास्ति प्रवादं तत्र यद् वस्तु लोकेऽस्ति धर्मास्तिकायादि यच्च नास्ति खरशृंगादि तत् प्रवदति इति अस्तिनास्तिप्रवादं, अथवा सर्व वस्तु स्वरूपेण अस्ति पररूपेण नास्ति इति प्रवदति इति अस्ति नास्ति प्रवादं तस्य पदपरिमाणं षष्टिः पदशतसहस्राणि । पंचमं ज्ञानप्रवादं ज्ञानं मतिज्ञानादिभेदभिन्नं पंचप्रकारं तत् प्रपंचं वदति इति ज्ञानप्रवादं तस्य पदपरिमाणं एका पदकोटी पदेन एकेन न्यूना । पष्टं सत्यप्रवादं सत्यं - संयमो सत्यवचनं वा तत् सत्यं संयमं वचनं वा प्रकर्षेण सप्रपंचं वदति इति सत्यप्रवादं तस्य पदपरिमाणं एका पदकोटी पभिः पदैः अभ्यधिका । सप्तमं पूर्व आत्मा प्रवादं, आत्मानं जीवं अनेकधा नयमतभेदेन यत् प्रवदति तत् आत्मप्रवादं तस्य पदपरिमाणं पविंशतिः पदकोटयः । अष्टमं कर्म्मप्रवादं कर्म्म- ज्ञानावरणीयादिकं अष्टप्रकारं तत् प्रकर्षेण-प्रकृतिस्थिति - अनुभागप्रदेशादिभिः भेदैः सप्रपंचं वदति इति कर्म्मप्रवादं तस्य पदपरिमाणं एका पदकोटी अशीतिश्च पदसहस्राणि । नवमं 'पच्चक्खाणं' ति अत्रापि पदैकदेशे पदसमुदायोपचारात्' प्रत्याख्यानप्रवादं इति द्रष्टव्यं प्रत्याख्यानं सप्रभेदं यद्वदति तत् प्रत्याख्यानप्रवादं तस्य पदपरिमाणं चतुरशीतिः पदलक्षाणि । दशमं विद्यानुप्रवादं विद्या-अनेक अतिशयसंपन्ना अनुप्रवदति - साधनानुकूल्येन सिद्धिप्रकर्षेण वदति इति विद्यानुप्रवादं तस्य पदपरिमाणं एका पदकोटी दश च पदलक्षाः । एकादशं अवंध्यं, वंध्यं नाम निष्फलं न लघुतरं चुल्लकं वस्तु, तानि च आदिमेषु एव चतुर्षु, न शेषेषु, तथा चाह- 'आइल्लाणं चउन्हं सेसाणं चुल्लिया णत्थि ।' तदेतत्पूर्वं गतं । अवचूरिसमलंकृतम् ॥२०२ ॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy