SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥१६०॥ अपेक्षया जीव इव, अव्यवच्छित्तिप्रतिपादनपरो नयः तस्य अर्थो अव्यवच्छित्तिनयार्थो, द्रव्यमित्यर्थः, तद्भावः तत्ता तया द्रव्यापेक्षया इत्यर्थः, किमित्याह-अनाद्यपर्यवसितं त्रिकालावस्थायित्वात् जीववत्, अधिकृतं एव अर्थ द्रव्यक्षेत्रादिचतुष्टयं अधिकृत्य प्रतिपादयति । 'तत्' श्रुतज्ञानं 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्तं, तद्यथा - द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतो 'णमिति वाक्यालंकारे सम्यक् श्रुतं एकं पुरुषं प्रतीत्य सादिपर्यवसितं कथमिति चेद् ?, उच्यते । सम्यक्वाप्तौ तत् प्रथमपाठतो वा सादि, पुनः मिध्यात्वप्राप्तौ सति वा सम्यक्त्वे प्रमादभावतो महाग्लानत्वभावतो वा परलोकगमन संभवतो वा विस्मृर्ति उपगते केवलज्ञानोत्पत्तिभावतो वा सर्वथा विप्रनष्टे सपर्यवसितं । बहून् पुरुषान् कालत्रयवर्त्तिनः पुनः प्रतीत्य अनादिअपर्यवसितं संतानेन प्रवृत्तत्वात्, कालवत्, तथा क्षेत्रतो 'णं' इति वाक्यालंकारे पंच भरतानि पंच ऐवतानि प्रतीत्य सादिसपर्यवसानं, कथं १, उच्यते, तेषु क्षेत्रेषु अवसविण्यां सुखमदुःखमापर्यवसाने उत्सर्पिण्यां तु दुःखमसुखमाप्रारंभे तीर्थकर धर्म्मसंधानां प्रथमतया उत्पत्तेः सादि, एकांतदुःखमादौ च काले तदभावात् सपर्यवसितं । तथा महाविदेहान् प्रतीत्य अनादि अपर्यवसितं तत्र प्रवाहापेक्षया तीर्थकरादीनां अव्यवच्छेदात्, तथा कालतो 'णं' इति वाक्यालंकारे, अवसर्पिण्यां उत्सर्पिण्यां च प्रतीत्य सादिसपर्यवसितं तथाहि अवसर्पिण्यां तिसृष्वेव समासु सुखमदुःखमादुःखमसुखमा दुःख मारूपासु, उत्सर्पिण्यां तु द्वयोः समयोः दुःखमसुखमा सुखमदुःखमारूपयोः भवति न परतः, ततः सादि सपर्यवसानं अत्र उत्सर्पिपणिअवसर्पिणी स्वरूपज्ञापनार्थ कालचक्रं विंशतिसागरोपम कोटाकोटी प्रमाणं विनेयजनानुग्रहार्थं यथा मूलवृचिकृता दर्शितं तथा वयं अपि दर्शयामः - चत्तारिसागरोत्रम कोडाकोडीउ संतई ए उ । एगं तसुस्समा खलु जिणेहिं सच्चेहिं निदिट्ठा ॥१॥ इत्यादि, नोत्सर्पिणीं नोवसर्पिर्णी च प्रतीत्य अनादि अपर्यवसितं, महाविदेहेषु हि नोउत्सर्पिणि नोअवसर्पिणीरूपः अवपुरिसमलंकृतम् ॥१६॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy