________________
नन्दिसूत्रम् ॥१६१॥
कालस्तत्र च सदा एव अवस्थितं सम्यक् श्रुतं इति अनादिअपर्यवसितं तथा भावतो 'में' इति वाक्यालंकारे, 'य' इति अनिर्दिष्टनिर्देशे ये केचन यदा पूर्वाह्नादौ जिनैः प्रज्ञप्ता जिनप्रज्ञप्ता भावाः - पदार्थाः । 'आधविअंति'त्ति प्राकृतत्वात् आख्यायंते, सामान्यरूपतया विशेषरूपतया वा कथ्यते इत्यर्थः । प्रज्ञाप्यंते नामादिभेदप्रदर्शनेन आख्यायंते, तेषां नामादयो मेदाः प्रदश्यते इत्यर्थः । प्ररूप्यते नामादिभेदस्वरूपकथनेन प्रख्यायंते नामादीनां भेदानां स्वरूपं आख्यायते इति भावार्थ:, तथा दर्श्यते उपमानमात्रोपदर्शनेन प्रकटीक्रियते । यथा गौः इव गवय इत्यादि, तथा निदश्यते - हेतुदृष्टांतोपदर्शनेन स्पष्टतरीक्रियते । उपदर्श्यते - उपनयनिगमनाभ्यां निःशंकं शिष्यबुद्धौ स्थाप्यते । अथवा उपदर्श्यते-सकलनयाभिप्रायावतारणतः पटुप्रज्ञशिष्यबुद्धिषु व्यवस्थाप्यंते, तान् भावान् 'तदा' तस्मिन् काले तथा आख्यायमानान् प्रतीत्य सादिसपर्यवसितं एतदुक्तं भवति, तस्मिन् काले तं तं प्रज्ञापकोपयोगं स्वरविशेषं प्रयत्नविशेषं आसन विशेष अंगविन्यासादिकं च प्रतीत्य सादिसपर्यवसितं उपयोगादेः प्रतिकालमन्यथाभवनात् । क्षायोपशमिकं भावं पुनः प्रतीत्य अनादि अपर्यवसितं, प्रवाहरूपेण क्षायोपशमिकभावस्य अनादि-अपर्यवसितत्वात् । अथवा इति प्रकारांतरोपदर्शने भवसिद्धिको - भव्यः तस्य सम्यक् श्रुतं सादिपर्यवसितं सम्यक्त्वलामे प्रथमतया भावात् । भूतो मिथ्यात्वप्राप्तौ केवलोत्पत्तौ वा विनाशात्, अभवसिद्धिकोऽभव्यः तस्य श्रुतं मिथ्याश्रुतं अनादि अपर्यवसितं तस्य स एव सम्यक्त्वादिगुणहीनत्वात्, सर्व च तदाकाशं च सर्वाकाशं, लोकालोकाकाशं इत्यर्थः, तस्य प्रदेशाः - निर्विभागा भागाः सर्वाकाशप्रदेशाः तेषां अयं परिमाणं सर्वाकाशप्रदेशानं तत्सर्वाकाशप्रदेशैः अनंतगुणितं अनंतशो गुणितं एकैकस्मिन् आकाशप्रदेशेऽनंतागुरुलघुपर्यायभावात् पर्यायाग्राक्षरं निष्पद्यते - इयमत्र भावना सर्वाकाशप्रदेशपरिमाणं सर्वाकाशप्रदेशैः अनंतशो गुणितं यावत् परिमाणं भवति तावत्प्रमाणं सर्वाकाशप्रदेशपर्यायाणां अग्रं भवति, एकैकस्मिन् आकाशप्रदेशे
अवचूरिसमलंकृतम्
॥ १६२॥