________________
नन्दिसत्रम्
अवचूरिसमलंकृतम्
॥१६२॥
यावंतोऽगुरुलघुपर्यायाः ते सर्वेऽपि एकत्र पिंडिता एतावतो भवंति इत्यर्थः, एतावत् प्रमाणं च अक्षरं भवति, इह स्तोकत्वात् धर्मास्तिकायादयः साक्षात् सूत्रे नोक्ताः, परमार्थतस्तु तेऽपि गृहीता द्रष्टव्याः, ततोऽयमर्थः-सर्वद्रव्यप्रदेशाग्रं सर्वद्रव्यप्रदेशैः अनंतशो गुणितं यावत् परिमाणं भवति तावत् प्रमाण-सर्वद्रव्यपर्यायपरिमाणं, यावत् एतावत्प्रमाणं च अक्षरं भवति । तदपि च अक्षरं द्विधा-ज्ञानं अकारादिवर्णजातं च, उभयत्रापि अक्षरशब्दप्रवृत्ते रूढत्वात् , द्विविधं अपि च इह गृह्यते, विरोधाभावात् , ननु ज्ञानं सर्वद्रव्यपर्यायपरिमाणं संभवतु, यतो ज्ञानं इहाविशेषोक्तौ सर्वद्रव्यपर्यायपरिमाणतुल्यताभिधानानुप्रक्रमात् वा केवलज्ञानं ग्रहीष्यते, तत्र च सर्वद्रव्यपर्यायपरिमाणं घटते एव, तथा हि-यावंतो जगति रुपिद्रव्याणां ये गुरुलघुपर्याया ये च रूपिद्रव्याणां अरूपिद्रव्याणां वा अगुरुलघुपर्यायास्तान् सर्वान् अपि साक्षात करतलकलितमुक्ताफलं इव केवलालोकेन प्रतिक्षणं अवलोकते भगवान्, न च येन खभावेन एकं पर्यायं परिच्छिनचि तेन एव स्वभावेन पर्यायांतरं अपि, तयोः पर्याययोः एकत्यप्रसक्तेः, सर्वजीवानां अपि 'ण' इति वाक्यालंकारे अक्षरस्य-श्रुतज्ञानस्य श्रुतज्ञानं च मतिज्ञानाविनाभावि ततो मतिज्ञानस्य अपि अनंतभागोऽनंततमो भागो 'नित्य उद्घाटितः सर्वदैवानावृतः सोऽपि चअनंततमो भागोऽनेकविधः तत्र सर्वजघन्यः चैतन्यमानं तत्पुनः सर्वोत्कृष्टश्रुतावरणस्त्यानर्द्धिनिद्रोदयभावेऽपि नात्रियते, तथा जीवस्वाभाव्यात् , तथा च आह-यदि पुनः सोऽपि अनंततमो भाग आत्रियते तर्हि जीवोऽजीवत्वं प्राप्नुयात् , जीवो हि नाम चैतन्यलक्षणभूतो यदि प्रबलश्रुतावरणः स्त्यानद्धिनिद्रोदयभावे चैतन्यमानं अपि आत्रियते । तर्हि जीवस्य खखभावपरित्यागात् अजीवतैव संपनीपद्यते । सुष्ठ अपि मेघसमुदये भवति प्रभा चंद्रसूर्ययोः, इयमत्र भावना-यथा निबिड निविडतरमेघपटलैः आच्छादितयोः अपि सूर्याचंद्रमसोः नैकांते तत् प्रभानाशः संपद्यते, सर्वस्य सर्वथा स्वभावापनयनस्य कर्तुं अशक्यत्वात् , एवं अनंतानंतैः अपि ज्ञानदर्शना
१६२॥