SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥१६३॥ वरणकर्म्म परमाणुभिः एकैकस्यापि आत्मप्रदेशस्य आवेष्टितपरवेष्टितस्यापि नैकांतेन चैतन्यमात्रस्यापि अभावो भवति । ततो यत् सर्वजघन्यं तन्मतिश्रुतात्मकं अतः सिद्धोऽक्षरस्यानंतभागो नित्य उद्घाटितः, तथा च सति मतिज्ञानस्य च अनादिभावः प्रतिपद्यमानो न विरुध्यते इति स्थितम् । तदेतत् सादिसपर्यवसितम् । से किं तं गमियं ? गमियं दिट्टिवाओ, अगमियं कालियं सुयं । सेत्तं गमियं सेत्तं अगमियं । अहवा तं समासओ दुविहं पन्नत्तं तं जहा - अंगपविद्धं । अंगबाहिरं च । अथ किं तद् गमिकं ?, इह आदिमध्यावसानेषु किंचिद्विशेषतो भूयोभूयस्तस्य एवं सूत्रस्य उच्चारणं गमः, तत्र आदौ सुयं मे आउसंतेणं भगवया एवमक्खायं इह खलु" इत्यादि । एवं मध्यावसानयोः अपि यथासंभवं द्रष्टव्यं । गमा अस्य विद्यते इति गमिकं, तत् गमिकं प्रायो दृष्टिवादः, तथा च आह- 'गमियं दिट्टिवाओ' तत् विपरीतं अगमिकं तत् च प्रायः आचारादिकालिकश्रुतं, असदृशपाठात्मकत्वात् तथा च आह- 'अगमियं कालियसुर्य' तदेतत् गमिकं अगमिकं, अथवा तत् - सामान्यतः श्रुतं अर्हत् उपदेशानुसारि समासतः - संक्षेपेण द्विविधं प्रज्ञसं, तद्यथा-अंगप्रविष्टं अंगवाह्यं च तत्र अंगप्रविष्टं इति । इह पुरुषस्य द्वादश अंगानि भवति, तद्यथाद्वौ पादौ २, द्वे जंघे ४, द्वे उरुणी ६, द्वे गात्रा ८ द्वौ बाहू १० ग्रीवा ११ शिरव १२ एवं श्रुतरूपस्यापि परमपुरुषस्य आचारादीनि द्वादश अंगानि क्रमेण वेदितव्यानि श्रुतपुरुषस्य अंगेषु प्रविष्टं अंगप्रविष्टं - अंगभावेन व्यवस्थितमित्यर्थः यत्पुनः एतस्य एव द्वादशांगात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितं अंगं बाह्यत्वेन व्यवस्थितं तत् अनंगप्रविष्टं, अथवा यत् गणधर देवकृतं तदंगप्रविष्टं मूलभूतमित्यर्थः, गणधरदेवा हि मूलभूतं आचारादिकं श्रुतं उपरचयंति, एषां एवं सर्वोत्कृष्टश्रुतलब्धिसंपन्नतया तत् रचयितुं ईशत्वात्, न अवचूरि| समलंकृतम् ॥१६३॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy