Book Title: Nandisutram Avchuri
Author(s): Devvachak, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 164
________________ नन्दिसत्रम् अवचूरिसमलंकृतम् ॥१६२॥ यावंतोऽगुरुलघुपर्यायाः ते सर्वेऽपि एकत्र पिंडिता एतावतो भवंति इत्यर्थः, एतावत् प्रमाणं च अक्षरं भवति, इह स्तोकत्वात् धर्मास्तिकायादयः साक्षात् सूत्रे नोक्ताः, परमार्थतस्तु तेऽपि गृहीता द्रष्टव्याः, ततोऽयमर्थः-सर्वद्रव्यप्रदेशाग्रं सर्वद्रव्यप्रदेशैः अनंतशो गुणितं यावत् परिमाणं भवति तावत् प्रमाण-सर्वद्रव्यपर्यायपरिमाणं, यावत् एतावत्प्रमाणं च अक्षरं भवति । तदपि च अक्षरं द्विधा-ज्ञानं अकारादिवर्णजातं च, उभयत्रापि अक्षरशब्दप्रवृत्ते रूढत्वात् , द्विविधं अपि च इह गृह्यते, विरोधाभावात् , ननु ज्ञानं सर्वद्रव्यपर्यायपरिमाणं संभवतु, यतो ज्ञानं इहाविशेषोक्तौ सर्वद्रव्यपर्यायपरिमाणतुल्यताभिधानानुप्रक्रमात् वा केवलज्ञानं ग्रहीष्यते, तत्र च सर्वद्रव्यपर्यायपरिमाणं घटते एव, तथा हि-यावंतो जगति रुपिद्रव्याणां ये गुरुलघुपर्याया ये च रूपिद्रव्याणां अरूपिद्रव्याणां वा अगुरुलघुपर्यायास्तान् सर्वान् अपि साक्षात करतलकलितमुक्ताफलं इव केवलालोकेन प्रतिक्षणं अवलोकते भगवान्, न च येन खभावेन एकं पर्यायं परिच्छिनचि तेन एव स्वभावेन पर्यायांतरं अपि, तयोः पर्याययोः एकत्यप्रसक्तेः, सर्वजीवानां अपि 'ण' इति वाक्यालंकारे अक्षरस्य-श्रुतज्ञानस्य श्रुतज्ञानं च मतिज्ञानाविनाभावि ततो मतिज्ञानस्य अपि अनंतभागोऽनंततमो भागो 'नित्य उद्घाटितः सर्वदैवानावृतः सोऽपि चअनंततमो भागोऽनेकविधः तत्र सर्वजघन्यः चैतन्यमानं तत्पुनः सर्वोत्कृष्टश्रुतावरणस्त्यानर्द्धिनिद्रोदयभावेऽपि नात्रियते, तथा जीवस्वाभाव्यात् , तथा च आह-यदि पुनः सोऽपि अनंततमो भाग आत्रियते तर्हि जीवोऽजीवत्वं प्राप्नुयात् , जीवो हि नाम चैतन्यलक्षणभूतो यदि प्रबलश्रुतावरणः स्त्यानद्धिनिद्रोदयभावे चैतन्यमानं अपि आत्रियते । तर्हि जीवस्य खखभावपरित्यागात् अजीवतैव संपनीपद्यते । सुष्ठ अपि मेघसमुदये भवति प्रभा चंद्रसूर्ययोः, इयमत्र भावना-यथा निबिड निविडतरमेघपटलैः आच्छादितयोः अपि सूर्याचंद्रमसोः नैकांते तत् प्रभानाशः संपद्यते, सर्वस्य सर्वथा स्वभावापनयनस्य कर्तुं अशक्यत्वात् , एवं अनंतानंतैः अपि ज्ञानदर्शना १६२॥

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240