Book Title: Nandanvan Kalpataru 2005 00 SrNo 14 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ वाचकानां प्रतिभावः जयतु संस्कृतम् जयतु भारतम् आत्मीयबन्धो ! नमस्ते । भवद्भिः प्रेषितो नन्दनवनकल्पतरुः प्राप्तः (२००४-१२, वि.सं. २०६०) । यद्यपि दृष्ट्वा (पुस्तकं) आनन्दं प्राप्तवती तथापि पठित्वा महानन्दम् अनुभवामि । अग्रिम- पुस्तकानि कदा आगमिष्यन्ति इत्यपि वाञ्छा भवति । पठितं विषयं पुनः पुनः पठितुम् इच्छा अपि उत्पन्ना भवति ।। अतः नन्दनवनकल्पतरुः पुरातनपुस्तकं (वि.सं. २००१) अपि नूतनम् एव । मम मातृभाषा तामिलभाषा । तस्यां भाषायां बहुविधनीतिवाक्यानि (Proverbs) क्रीडारूपेण वदामः । तादृशं संस्कृते कथं वदामि इति चिन्तामग्ना आसम् । तदा "आभाणकजगन्नाथः" दृष्ट्वा बहु सन्तोषः अभवत् । नन्दनवनकल्पतरुः संस्कृतपठनाय बहु उपयोगी अस्ति । B-54/5, D.R.O.Colony, भवदीया K.Pudur, Madurai-625007 (Tamilnadu). टि.कला मान्याः , सादरं प्रणामाः । 'नन्दनवनकल्पतरोः' त्रयोदशोऽङ्कोऽधिगतः । 'प्रास्ताविके' जागरणाय या प्रेरणा प्रदत्ता, सा मर्म संस्पृशति । डा. रामकिशोर मिश्रस्य 'आचार्यहेमचन्द्रसूरिकृतं छन्दोऽनुशासनम्' इति लेखः शोधात्मकं विवरणं प्रस्तौति । 'मङ्गलकलशः' एका रम्या कथाऽस्ति, या प्राणिनः सत्कर्मणि प्रवर्तयति । कृतानां कर्मणां फलं भोक्तव्यमेव भवति, किन्तु स्वार्थलिप्सया जनाः सत्कर्माणि परित्यजन्ति, परपीडने प्रवञ्चने वा रमन्ते । अन्या अपि रचना मानवीयान् गुणान् || संवर्धयन्ति । जयतु संस्कृतं संस्कृतिश्च । विनीतः रूपनारायणपाण्डेयः एस्-II /३३०, राज्यशिक्षासंस्थानकालोनी, एलन गञ्जः, प्रयागः (उ.प्र.) २११००२ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 156