Book Title: Muktivad
Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
13
सत्यप्यनन्तकालं यावत् सहकारिकारणान्यलभमानाः संसारे एव भ्रमणशीला भविष्यन्ति । एते ‘जातिभव्या’ उच्यन्ते । नैतेऽभव्याः - अयोग्यताऽभावात् । भव्यत्वमेतद् दार्वादौ प्रतिमादियोग्यताकल्पं विभावनीयम् ।
जैनदर्शनस्याऽनेकान्तदृष्ट्यनुसारं मोक्षोपायेष्विदन्ताऽऽग्रह इयत्ताऽऽग्रहो वा नाऽस्ति । किं बहुना ? जैनधर्मोपासनेऽपि नैवाऽभिनिवेशो जैनाचार्याणाम् । 'रागद्वेषविलय एव मुक्तिहेतु:, यः कोऽपि येन केनाऽप्युपायेन तं साधयति स मोक्षाधिकारी'ति तेषां समुदारघोषणा । बहुश उपलभ्यते जैनशास्त्रेष्वन्यसम्प्रदायानुसारिणां केनचिद्धेतुना रागद्वेषविलये सति मुक्तिगमनस्य वर्णनम् ।
I
नन्वेवं समुदारविचारधारायां सत्यामपि कथं जिनाज्ञाबहिर्भूतानां तत्र तत्र निन्दा कृता े ? किं सा निन्दा न सम्प्रदायान्तरतिरस्कारसूचिकेति केचनाऽऽक्षिपन्ति । परमभिप्रायापरिज्ञानमूलकं तत् । तथाहि - जिनाज्ञाया मुष्टिरेकैव - आत्मानं मलिनीकुर्वाणानि तत्त्वानि निवारय, आत्मोन्नतिं च साधयेति । य आत्मनः कल्याणं सम्पादयति, स कस्मिंश्चिदपि मते आस्थावान् सन्नपि परमार्थतो जिनाज्ञापालक एव । यस्तु विषयगृद्ध एव स जैननियमानां पालकः सन्नपि तत्त्वतो जिनाज्ञाबहिर्भूत एव । इत्थं च जिनाज्ञाननुपालकानां निन्दाया आत्मकल्याणप्रेरणायामेव पर्यवसानम् । एवमेव दर्शनान्तरमतखण्डनं सम्प्रदायान्तरविधिनिषेधदूषणं च जैनाचार्यैर्यद् विहितं तद् न तथा पारमार्थिकात्मशुद्धेः सम्भव इति बोधयितुमेव अत एव पारमार्थिकात्मशुद्धिसम्पादको धर्मो जैनेतरशास्त्रप्रतिबोधितोऽप्यनुमोदित एव जैनाचार्यैः ५ ।
अथ मोक्षवार्त्ताऽऽरभ्यते । तत्र मोक्षास्तित्वे एव केचन विप्रतिपत्तिमन्तः । तदुत्थापिता मोक्षसत्त्वबाधिका युक्तयश्चेमाः । १. कर्मक्षय एव मोक्षतया भवदभिमतः । तत्र क्षयमुपगच्छतः कर्मण आत्मना सह सम्बन्धः सादिर्वाऽनादिर्वा ? सादित्वे तत्सम्बन्धात् पूर्वमात्मनो मुक्तत्वापत्तिः । तथैवाऽस्त्विति मनने त्विदानीं कर्मक्षयं कृत्वा मुक्ताऽपि पुनर्बन्धापत्तिः । कर्मबन्धस्याऽनादित्वे तु 'क्रियते इति कर्मेति व्युत्पत्त्यर्थान्वयानुपपत्तिः, तत्सम्बन्धविच्छेदस्याऽसम्भवश्च योऽनादिः सोऽनन्त इति व्याप्तेः । २. अमूर्तस्य गगनस्य १. योगशतकम् - ४९ टीका
२. सेयंबरो य आसंबरो य, बुद्धो य अहव अन्नो वा ।
समभावभाविअप्पा, लहइ मुक्खं न संदेहो ॥ - सम्बोधप्रकरण- ३ प्राचीना गाथा
३. जिन ! त्वदाज्ञामवमन्यते यः, स वातकी नाथ ! पिशाचकी वा । -
४. वीतरागस्तवः - १९.५,६
५. यथा योगदृष्टि ० - १००, योगबिन्दुः- १००.
अन्ययोगव्यवच्छेद० – २१

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 285