Book Title: Muktivad
Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
17
अनाहार्यत्वात् । तत् स्वाभाविकम्-आत्मस्थत्वात् । तन्निरुपमं-तादृशस्यैकत्वात् । तत्प्राप्तौ च न कस्यापि हानिलेशोऽपि । परोपकारोऽपि स्वयं तदवाप्य परेभ्यस्तद्वितरणे एव सम्भवी। परेषां शारीरिकादिदुःखानि दूरीकृतानि चेन्न पर्याप्तम् । तत्त्ववकरपूरिते गृहे दुरभिनिवारणार्थं धूपज्वलनसदृशमेव । तदुःखहेतोः कर्मणो निवारणायोपायस्य प्रदर्शनेनैव वास्तविक उपकारः । स च मयाऽन्वेषणीय इति । एवं विचिन्त्य ते मोक्षार्थं बद्धकक्षा भवन्ति ।
इदं तु ध्येयं-प्रशमसुखं नैवाऽऽगन्तुकं तत्त्वम् । तत् सहजं भवदपि कर्मावृतत्वान्नाऽनुभूयते, शरावावृतप्रदीपप्रकाशवत् । यथा यथा च तदावरणमपस्रियते तथा तथा तत्प्रादुर्भूतिः । आवरणापसृतिहेतू रागद्वेषहानिः । रागद्वेषयोः सर्वथाऽपचयश्च मुक्तावेवेति तत्रैव प्रशमसुखस्य सर्वतः प्रकटनम् ।
कीदृशं तत् सुखमिति प्रश्ने वक्तुमनहमित्येवोत्तरं भवेदनुभवैकगम्यत्वात् । तथापि किञ्चिदवगमार्थमेवं प्रज्ञाप्यते-अन्नादिसम्भोगो बुभुक्षादिनिवृत्त्या सुखं ददाति । तत्र वस्तुतः किं साधितं भवति येन वयं सुखं वेदयामहे ? स्वास्थ्यमेव तत् । एवं सति ये सर्वदा स्वस्था एव तेषां सुखमनुत्तरमेव भवेत् ? तदांशिकप्रत्यक्षन्तु मनाग्विकारराहित्यजन्यस्वास्थ्येऽस्माकमपि सम्भवि । तावन्तं कालं 'वयं मुक्ता' इत्यपि वक्तुं शक्यम् ।
सिद्धिसुखस्योपमातीतत्वेऽपि निदर्शनमात्रमेवं दर्शितम्-सर्वशत्रुक्षये सर्वव्याधिविगमे सर्वार्थसंयोगे सर्वेच्छासम्पूर्ती च यादृशं सुखं जायेत ततोऽनन्तगुणं सिद्धिसुखं भवतिरागादिभावशत्रुक्षयात् कर्मोदयव्याधिविगमात् परमलब्धिसंयोगादनिच्छैकेच्छाशेषाच्च । एतत् सुखमप्राप्तवल्लभसंयोगायाः कुमार्याः प्रियसंयोगसुखमिवाऽस्माभिर्यथावज्ज्ञातुमशक्यं भवति ।
अत्र यद्यप्यापाततो मुक्तौ सुखस्य सर्वथाऽसत्त्वमङ्गीकुर्वतां नैयायिकानां३ जैनाः प्रतिवादिनो भवन्तीति भासेत । तथापि तदयुक्तमुभयोः कथञ्चित्समानाभिप्रायत्वात् । तथाहि-सुखशब्दस्य प्रवृत्तिनिमित्तमानुकूल्येन वेदनीयत्वम् । ततस्तस्य चत्वारोऽर्थाः सम्भवन्ति–विषयवेदनं, वेदनाभावः, पुण्यकर्मविपाकतः स्वेष्टप्राप्ती, रागद्वेषविलयश्च । एषामनुक्रमं दृष्टान्ताः-सुखदो वह्निः, भारापगमादहं सुखी, इदं लब्ध्वा सुख्यहं, स मोक्षसुखं प्राप्तवान् । नैयायिकैर्धर्मजसुखस्य मुक्तौ निषेधः कृतः, स तु पुण्यकर्मविपाकरूपसुखस्य मुक्तावभावं प्रतिपादयतां जैनानामपि सम्मतः । मुक्तौ दुःखाभावे सुखमुपचर्यते इति १. किंफलोऽन्नादिसम्भोगः ? बुभुक्षादिनिवृत्तये ।।
तन्निवृत्तेः फलं किं स्यात् ? स्वास्थ्यं, तेषां तु तत् सदा ॥–प्राचीनः श्लोक: २. प्रशमरति:-२३८ ३.* नाऽत्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ।-न्यायमञ्जरी

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 285