Book Title: Muktivad
Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 16
________________ मोक्ष एव । अन्यच्च, अस्मासु शमादिसम्पत्तेन्यूनाधिक्यमनुभूयते । यच्च न्यूनाधिकवृत्तिमत् तस्य प्रकर्षः कुत्रचित् स्यादेव । यत्र शमादिसम्पत्तेः प्रकर्षः स मुक्तिरेवेति । केचन विविधविचारणाप्रधाविता मुक्तावात्मास्तित्वं न स्वीकुर्वन्ति । तत्र प्रमुखाः परिगण्यन्तेऽनादिचित्तसन्तानमेवाऽऽत्मस्थाने स्थापयन्तो बौद्धाः । सवासनस्थितावेव चित्तोत्पादः, तद्वशादेव संसारः, वासनाक्षये क्लेशाभावाच्चित्तानुत्पाद एव मुक्ति इति तेषां मतम् । एतैर्मुक्त्यर्थमुदाह्रियमाणं दीपनिर्वाणमतिप्रसिद्धमित्येते दीपनिर्वाणवादिन उच्यन्ते । अत्र जैना एवं प्रतिविदधते-भावः कदापि सर्वथा नाशं नैति । घटनाशे घटखण्डोत्पत्तिवदेकद्रव्यनाशेऽन्यद्रव्योत्पादेन भवितव्यमेव । भावत्वाभावत्वे अत्यन्तविरुद्ध अनादिसंसिद्धे च, अतो भावोऽभावत्वं नाऽऽप्नोति, अभावश्च भावत्वम् । आम्, भावस्य परिणामात् परिणामान्तरं प्रत्युपसर्पणं सम्भवति । दीपपुद्गला अपि स्नेहनाशेऽन्धकारपरिणामं प्राप्नुवन्ति, न पुनर्नाशमेवेति । "शक्तेः कदापि नाशो न भवति, तत्परिणामान्तरमेव सम्भवती"ति वैज्ञानिकसंशोधनं तत्त्वान्तरविषयकमप्यत्र ध्यानार्हम् । ___ संसारे नरनारकादिपर्यायवियुतं शुद्धजीवद्रव्यं तु नैव दृष्टम् । पर्यायाश्च सर्वे कर्माधीना एवेति कर्मनाशे तज्जन्यपर्यायनाशात्तदवियुक्तं शुद्धजीवद्रव्यमपि न तिष्ठेदिति केषाञ्चित् कल्पना बालिशताद्योतिकैव । यतः किं मुद्गरपाताद् घटनाशे तदवियुक्तस्य गगनस्याऽपि नाशो भवति ? जीवत्वं तु न कर्मसापेक्षं खलु ? यत् कर्मनाशे तस्याऽपि नाशो भवेत् । वस्तुतः पर्यायवियुतं द्रव्यं नैव भवतीति जैनैरपि स्वीकृतं, परं मुक्तिरपि पर्यायविशेष एवेति न दोषः । 'जीवन' नाम प्राणधारणमेव । प्राणास्तु शरीरेन्द्रियादयः सर्वेऽपि कर्मजन्या: । मोक्षः कर्मनाशे सत्येव । ततस्तत्र प्राणाभावाज्जीवनाभाव इति जीवोऽजीवत्वं प्राप्नुयादिति मननमज्ञानविजृम्भितमेव । यतः प्राणा हि द्विविधाः-द्रव्यप्राणा भावप्राणाश्च । मोक्षे शरीरादिद्रव्यप्राणानामेवाऽभावः, न पुनर्ज्ञानदर्शनादिभावप्राणानाम् । तद्धारणाज्जीवस्य जीवत्वमपि सुस्थमिति । १. यथा हि लोके दुक्खस्स पटिपक्खभूतं सुखं नाम अत्थि, एवं भवे सति तप्पटिपक्खेन विभवेनापि भवितब्बं । यथा च उण्हे सति तस्स वूपसमभूतं सीतं पि अत्थि, एवं रागादीनं अग्गीनं वूपसमेन निब्बानेनापि भवितब्बं ।-बुद्धस्य सुमेधब्राह्मणभवस्य कथा । *२. बोधिचर्यावतार:-९.३५, बोधिचर्या० पञ्जिका- पृ० ३५०, ४१८ ३. नाऽसतो विद्यते भावो, नाऽभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ।।-व्यासमहर्षिः ४. नवतत्त्व०-७

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 285