________________
मोक्ष एव । अन्यच्च, अस्मासु शमादिसम्पत्तेन्यूनाधिक्यमनुभूयते । यच्च न्यूनाधिकवृत्तिमत् तस्य प्रकर्षः कुत्रचित् स्यादेव । यत्र शमादिसम्पत्तेः प्रकर्षः स मुक्तिरेवेति ।
केचन विविधविचारणाप्रधाविता मुक्तावात्मास्तित्वं न स्वीकुर्वन्ति । तत्र प्रमुखाः परिगण्यन्तेऽनादिचित्तसन्तानमेवाऽऽत्मस्थाने स्थापयन्तो बौद्धाः । सवासनस्थितावेव चित्तोत्पादः, तद्वशादेव संसारः, वासनाक्षये क्लेशाभावाच्चित्तानुत्पाद एव मुक्ति इति तेषां मतम् । एतैर्मुक्त्यर्थमुदाह्रियमाणं दीपनिर्वाणमतिप्रसिद्धमित्येते दीपनिर्वाणवादिन उच्यन्ते । अत्र जैना एवं प्रतिविदधते-भावः कदापि सर्वथा नाशं नैति । घटनाशे घटखण्डोत्पत्तिवदेकद्रव्यनाशेऽन्यद्रव्योत्पादेन भवितव्यमेव । भावत्वाभावत्वे अत्यन्तविरुद्ध अनादिसंसिद्धे च, अतो भावोऽभावत्वं नाऽऽप्नोति, अभावश्च भावत्वम् । आम्, भावस्य परिणामात् परिणामान्तरं प्रत्युपसर्पणं सम्भवति । दीपपुद्गला अपि स्नेहनाशेऽन्धकारपरिणामं प्राप्नुवन्ति, न पुनर्नाशमेवेति । "शक्तेः कदापि नाशो न भवति, तत्परिणामान्तरमेव सम्भवती"ति वैज्ञानिकसंशोधनं तत्त्वान्तरविषयकमप्यत्र ध्यानार्हम् ।
___ संसारे नरनारकादिपर्यायवियुतं शुद्धजीवद्रव्यं तु नैव दृष्टम् । पर्यायाश्च सर्वे कर्माधीना एवेति कर्मनाशे तज्जन्यपर्यायनाशात्तदवियुक्तं शुद्धजीवद्रव्यमपि न तिष्ठेदिति केषाञ्चित् कल्पना बालिशताद्योतिकैव । यतः किं मुद्गरपाताद् घटनाशे तदवियुक्तस्य गगनस्याऽपि नाशो भवति ? जीवत्वं तु न कर्मसापेक्षं खलु ? यत् कर्मनाशे तस्याऽपि नाशो भवेत् । वस्तुतः पर्यायवियुतं द्रव्यं नैव भवतीति जैनैरपि स्वीकृतं, परं मुक्तिरपि पर्यायविशेष एवेति न दोषः ।
'जीवन' नाम प्राणधारणमेव । प्राणास्तु शरीरेन्द्रियादयः सर्वेऽपि कर्मजन्या: । मोक्षः कर्मनाशे सत्येव । ततस्तत्र प्राणाभावाज्जीवनाभाव इति जीवोऽजीवत्वं प्राप्नुयादिति मननमज्ञानविजृम्भितमेव । यतः प्राणा हि द्विविधाः-द्रव्यप्राणा भावप्राणाश्च । मोक्षे शरीरादिद्रव्यप्राणानामेवाऽभावः, न पुनर्ज्ञानदर्शनादिभावप्राणानाम् । तद्धारणाज्जीवस्य जीवत्वमपि सुस्थमिति ।
१. यथा हि लोके दुक्खस्स पटिपक्खभूतं सुखं नाम अत्थि, एवं भवे सति तप्पटिपक्खेन विभवेनापि
भवितब्बं । यथा च उण्हे सति तस्स वूपसमभूतं सीतं पि अत्थि, एवं रागादीनं अग्गीनं वूपसमेन
निब्बानेनापि भवितब्बं ।-बुद्धस्य सुमेधब्राह्मणभवस्य कथा । *२. बोधिचर्यावतार:-९.३५, बोधिचर्या० पञ्जिका- पृ० ३५०, ४१८ ३. नाऽसतो विद्यते भावो, नाऽभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ।।-व्यासमहर्षिः ४. नवतत्त्व०-७