________________
14
बन्धमोक्षौ न भवत इति तादृशस्यैवाऽऽत्मनो बन्धमोक्षौ कथम् ? ३. कर्मपुद्गलानां च समग्रलोकव्यापित्वं भवदभ्युपगतम् । अथाऽऽत्मा संसारी स्यादुत मुक्तः स्यादवस्थानं तु तस्य लोके एवेति लोकव्यापिकर्मपुद्गलेभ्योऽन्यतमैः साकं मुक्तस्य सम्बन्धः कथं न स्यात् ? आत्मना साकं कर्मणः सम्बन्ध एव मुक्ततावरोधक इति तत्सम्बन्धसत्त्वे कथं स मुक्तः ? ४. इहलोकसमुपाजितपुण्यपापकर्मणामुपभोगार्थं नाकनरककल्पना भवतु नाम, परं मोक्षस्य कल्पना किमर्थं कर्तव्या ? इति ।
नैता असदुत्तराः । तथाहि- १. "क्रियते इति कर्मेति व्युत्पत्त्यर्थानुरोधेन कर्मबन्धस्य व्यक्तिशः सादित्वेऽपि प्रवाहतः (=सन्तत्यपेक्षया) अनादित्वमेव, पुरुषस्य सादित्वेऽपि पितापुत्रपरम्पराया अनादित्ववत् । अनादित्वेऽपि तत्परम्पराया उच्छेदस्तु बीजाङ्करसन्तानोच्छेद इव सुशक एव । यथा बीजादङ्करोद्भवः, अङ्करतः पुनः कालान्तरे बीजोत्पत्तिरित्यनादिपरम्परा, यदा चाऽन्यतरस्य तदितरजननात् पूर्वमेव वयादिना नाशस्तदा परम्परासमाप्तिः । तथैवाऽऽनादिकालात् कर्मोदयवशतः शुभाशुभप्रवृत्तयः, तज्जन्यश्च कर्मबन्धः । यदा च ध्यानाग्निना कर्मनाशस्तदाऽनादिपरम्परायाः समाप्तिरपि । नाऽत्रापि बीजाङ्करयोरिव कतरत् प्रथममिति वक्तुं शक्यते । कुक्कुट्यण्डपरम्पराऽप्यत्र निदर्शनीभवति । किञ्च, भूमिस्थसुवर्णस्याऽनादिकालादशुद्धस्य वढ्यादिना मालिन्यापगमे काञ्चनत्वाप्तिरिव जीवस्याऽप्यनादिकालादशुद्धस्य तपोध्यानादिना कर्मनाशे युज्यते एव शुद्धता । २. आकाशस्य सर्वा अपि क्रिया न प्रेरणापूर्विका, जीवस्य तु चेष्टामात्रमन्तःप्रेरणाप्रचोदितमिति दृष्टान्तदार्टान्तिकयोर्महद् वैषम्यम् । अमूर्तस्य गगनस्य यथा मूर्त्तकृतावनुग्रहोपघातौ न सम्भवतस्तथा जीवस्याऽप्यमूर्तस्य मूर्तिमत्कर्मजन्यौ न सम्भवेतां तावित्यप्याशङ्का न युक्ता-अमूर्तस्या अपि बुद्धेळयाद्यौषधि-मद्यादिभिरनुग्रहोपघातदर्शनात् । ३. जीवकर्मणोः संयोगमात्रं न बन्धत्वेनाऽभिमतं, कर्मसंयुक्तस्य गगनस्याऽपि बद्धत्वापत्तेः । किन्तर्हि ? कर्मरूपेण परिणमयितुं योग्याः पुद्गलसङ्घाता योगवशाच्चलायमानेष्वात्मप्रदेशेषु रागद्वेषाभ्यञ्जनलक्षणस्नेहवशात् श्लिष्यन्ति, आत्मना साकं वययस्पिण्डवदन्योन्यानुगममापादयन्ति च । एष एव बन्धः । मुक्तात्मसु परिस्पन्दस्नेहयोरभावात् कर्मसंयोगेऽपि न तद्बन्धः । ४. मोक्ष आगमप्रमाणसिद्ध एव, तथापि स न श्रद्धैकगम्यः, कथञ्चिद् अनुमानस्याऽपि विषयत्वात् । तथाहि-यथा प्रवृत्तेः फलं कर्म, तथा निवृत्तेरपि केनचित् फलेन भवितव्यम् । यच्च तत्फलं तत् कर्मनाश एव, स एव च मुक्तिः । किञ्च, संसारस्थानि सकलवस्तूनि सप्रतिपक्षाण्येव शैत्यौष्ण्यवत् । तथा संसारेणाऽपि सप्रतिपक्षेण भवितव्यम् । यश्च तत्प्रतिपक्षः स
१. तत्त्वार्थ०-८.२, ८.३, ८.२६