SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ 13 सत्यप्यनन्तकालं यावत् सहकारिकारणान्यलभमानाः संसारे एव भ्रमणशीला भविष्यन्ति । एते ‘जातिभव्या’ उच्यन्ते । नैतेऽभव्याः - अयोग्यताऽभावात् । भव्यत्वमेतद् दार्वादौ प्रतिमादियोग्यताकल्पं विभावनीयम् । जैनदर्शनस्याऽनेकान्तदृष्ट्यनुसारं मोक्षोपायेष्विदन्ताऽऽग्रह इयत्ताऽऽग्रहो वा नाऽस्ति । किं बहुना ? जैनधर्मोपासनेऽपि नैवाऽभिनिवेशो जैनाचार्याणाम् । 'रागद्वेषविलय एव मुक्तिहेतु:, यः कोऽपि येन केनाऽप्युपायेन तं साधयति स मोक्षाधिकारी'ति तेषां समुदारघोषणा । बहुश उपलभ्यते जैनशास्त्रेष्वन्यसम्प्रदायानुसारिणां केनचिद्धेतुना रागद्वेषविलये सति मुक्तिगमनस्य वर्णनम् । I नन्वेवं समुदारविचारधारायां सत्यामपि कथं जिनाज्ञाबहिर्भूतानां तत्र तत्र निन्दा कृता े ? किं सा निन्दा न सम्प्रदायान्तरतिरस्कारसूचिकेति केचनाऽऽक्षिपन्ति । परमभिप्रायापरिज्ञानमूलकं तत् । तथाहि - जिनाज्ञाया मुष्टिरेकैव - आत्मानं मलिनीकुर्वाणानि तत्त्वानि निवारय, आत्मोन्नतिं च साधयेति । य आत्मनः कल्याणं सम्पादयति, स कस्मिंश्चिदपि मते आस्थावान् सन्नपि परमार्थतो जिनाज्ञापालक एव । यस्तु विषयगृद्ध एव स जैननियमानां पालकः सन्नपि तत्त्वतो जिनाज्ञाबहिर्भूत एव । इत्थं च जिनाज्ञाननुपालकानां निन्दाया आत्मकल्याणप्रेरणायामेव पर्यवसानम् । एवमेव दर्शनान्तरमतखण्डनं सम्प्रदायान्तरविधिनिषेधदूषणं च जैनाचार्यैर्यद् विहितं तद् न तथा पारमार्थिकात्मशुद्धेः सम्भव इति बोधयितुमेव अत एव पारमार्थिकात्मशुद्धिसम्पादको धर्मो जैनेतरशास्त्रप्रतिबोधितोऽप्यनुमोदित एव जैनाचार्यैः ५ । अथ मोक्षवार्त्ताऽऽरभ्यते । तत्र मोक्षास्तित्वे एव केचन विप्रतिपत्तिमन्तः । तदुत्थापिता मोक्षसत्त्वबाधिका युक्तयश्चेमाः । १. कर्मक्षय एव मोक्षतया भवदभिमतः । तत्र क्षयमुपगच्छतः कर्मण आत्मना सह सम्बन्धः सादिर्वाऽनादिर्वा ? सादित्वे तत्सम्बन्धात् पूर्वमात्मनो मुक्तत्वापत्तिः । तथैवाऽस्त्विति मनने त्विदानीं कर्मक्षयं कृत्वा मुक्ताऽपि पुनर्बन्धापत्तिः । कर्मबन्धस्याऽनादित्वे तु 'क्रियते इति कर्मेति व्युत्पत्त्यर्थान्वयानुपपत्तिः, तत्सम्बन्धविच्छेदस्याऽसम्भवश्च योऽनादिः सोऽनन्त इति व्याप्तेः । २. अमूर्तस्य गगनस्य १. योगशतकम् - ४९ टीका २. सेयंबरो य आसंबरो य, बुद्धो य अहव अन्नो वा । समभावभाविअप्पा, लहइ मुक्खं न संदेहो ॥ - सम्बोधप्रकरण- ३ प्राचीना गाथा ३. जिन ! त्वदाज्ञामवमन्यते यः, स वातकी नाथ ! पिशाचकी वा । - ४. वीतरागस्तवः - १९.५,६ ५. यथा योगदृष्टि ० - १००, योगबिन्दुः- १००. अन्ययोगव्यवच्छेद० – २१
SR No.009262
Book TitleMuktivad
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages285
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy