________________
16
वस्तुतो ये केऽपि येन केनाऽपि प्रकारेण मोक्षे आत्मास्तित्वं निषेधयन्ति तैरेतद् विचारणीयं-मोक्षे ममाऽस्तित्वमेव समाप्तिमेष्यतीति जानतः पुंसः कथं मोक्षप्रवृत्तावुत्साह: स्यात् ? कथं वा स्वस्यैवोच्छेदोऽभीष्टः स्यात् ? दुःखवित्रस्तानामात्महानमपीष्टं भवतीति विभावने मुक्तिर्मूढाचीर्णात्मघातान्निविशेषैव कथं न स्यात् ? तथा च सा कथं विवेकिनां हेया न स्यात् ? तत्त्वतस्तु किं तादृशमुक्त्यपेक्षया संसार एव न वरः ? यत्र तावदन्तराऽन्तराऽपि काचित् सुखमात्रा त्वनुभूयते, न पुनर्दु:खाद् वित्रस्तस्य सुखसम्भावनाया अप्युच्छेद इति ।
__ अत्र मुक्त्यर्थं प्रवृत्तिः कथं भवतीति चिन्त्यते । सर्वे जीवाः सुखाभिलाषिणः । कीटिकातः कुञ्जरं यावत् सर्वेऽपि सत्त्वा यत्किमपि कुर्वन्ति तत् सुखाभीप्सयैव । इष्टसाधनताज्ञानस्य प्रवर्तकत्वं यन्नैयायिकैनिष्टङ्कितं तेनाऽपीदमेव फलितं भवति यत् सुखेच्छैव जीवानां प्रचोदिका । इत्थं च सुखार्थं प्रयत्नवत्त्वरूपेण धर्मेण यद्यपि सर्वे समानास्तथापि तात्त्विकदृष्ट्या सत्त्वाः समूहचतुष्के विभक्ता दृश्यन्ते । एकस्मिन् समूहे तेऽन्तर्भवन्ति ये शारीरिकसुखे तन्नाम विषयेष्वेव गृद्धा भवन्ति । हेयार्थार्थमुद्यमवन्तः स्थूलदृष्ट्या एतेऽधमा उच्यन्ते । द्वितीये ते समाविष्टा भवन्ति, ये 'अस्मिन् जन्मनि तु पूर्वजन्मविहितकर्मजन्यं सुखदुःखादिकं लब्धं, परममुत्र सुखार्थं मयेहलोके प्रवर्तितव्य'मिति विचिन्त्य दानादिषु व्यापृता भवन्ति । प्रेयार्थार्थमुद्यमिन एते विषयेष्वेव निबद्धदृष्टयोऽपि प्रायः परहानि न कुर्वन्ति, प्रत्युत पुण्यलिप्सया किञ्चित्परोपकारमपि साधयन्तीति प्रथमसमूहगतसत्त्वापेक्षया मनागुच्चा इति विमध्यमा उच्यन्ते । तृतीये पुनः परार्थसम्पादने एव सुखं मन्यमानाः प्रविष्टाः । उपादेयार्थार्थमुद्यमं कुर्वन्त एते यद्यपि महान्तः, तथाप्यमीषां दृष्टिौतिकपरिधावेव सीमितेत्येते मध्यमाः परिगण्यन्ते ।
चतुर्थे पुनस्ते उत्तमजीवाः स्थानमाप्नुवन्ति, ये एवं विचिन्तयन्ति-विषयसुखं यावदुत्कृष्टं भवतु परं तदनित्यमेव भवति । तदुपभोगादिकालार्जितकर्मोदयवेलायां घोरदुःखानुभवेन विपाकविरसमेव वैषयिकसुखं भवति । किञ्च, तत् कर्मानुसारं लभ्यते इति परवशं, ततश्च परमार्थतो दुःखमेव । तदर्थं कतीनां चाटुकारिताद्यपि करणीयं भवति । किञ्च, कष्टेन विषयाः सम्प्राप्ताश्चेन्न पर्याप्तं, तत्संरक्षणेऽपि तावत्येव कष्टपरम्परा । अन्यच्च, प्रयोजनवशादस्माकं शुभाशुभादिकल्पना विपरिणमते इति विषयेष्वस्माकं रुचिरपि नैव स्थिरा । ततोऽद्य भृशमीप्स्यमानः कष्टेन सम्प्राप्तो विषयः श्वो दर्शनेनाऽपि दुःखदो भवेत्तत्र नैवाऽऽश्चर्यम् । वस्तुतो बहुशस्तु वयं दुःखप्रतीकारमेव सुखं मन्यामहे, कच्छूकण्डूयनवत् । महत्त्वपूर्णा वार्ता त्वेषा यत् तत्सुखेऽनेकेषां दुःखं घनीभूतं भवति । रागद्वेषविलयजन्यं प्रशमसुखं तु नैवम् । तन्निरुपाधिकं-परानपेक्षणात् । तत एव तन्नित्यम् । तदभयम्