Book Title: Muktivad
Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 13
________________ 12 स्वरूपस्योद्घाटनमेवोपदिशन्ति ततोऽहिंसैव जिनाज्ञासारः । धर्मस्य परमलक्ष्यीभूता मुक्तिः स्वरूपप्राकट्येनैव साध्येति तद्रूपाऽहिंसैव परमो धर्म इति । अस्य अहिंसाया यत्किमपि रूपं भवेत् , परं तदुद्भवस्थानं स्वस्याऽन्यसत्त्वैः सह वास्तविकसमानतायाः संवेदनमेव । यतो यावद् विचारस्तरे सर्वभूतेष्वात्मौपम्यं नाऽवतरेत् तावदाचारेऽहिंसायाः प्रतिष्ठा नैव भवेत् । किमधिकेन ? आगमेष्वप्यहिंसाया व्याख्यानरूपेण स्वस्थसकलव्यवहारेषु परैः सहाऽऽत्मसाम्यविचारस्याऽवतारणमेव दर्शितम् । सत्यमेवैतद्, यत आत्मनि यावान् स्नेहस्तावान् परेष्वपि भवति चेत् कथमस्मद्धस्ताभ्यां परदुरवस्थापादनं सम्भवेदिति । इदमात्मसाम्यभावनाप्राधान्यं न केवलं जैनानामाचारपरिधावेव सीमितमपि तु जैनदर्शनचिन्तनेऽप्यस्य प्रसारः । जैनानां दृढं मन्तव्यं यत् सर्वेऽप्यात्मानः सर्वगुणैः समाना एव । यत् पुनदृश्यमानं वैचित्र्यं तद् गुणावृत्यनावृतिरूपवैषम्येन जनितं, तत् पुनः कर्ममूलकं न तु सहजम् । सहजस्त्वात्मिकविकाससम्पादनाधिकारः सिद्धीभवनाधिकार ईश्वरत्वप्राप्त्यधिकारश्च । नीचातिनीचयोनिं गतोऽपि क्षुद्रातिक्षुद्रावस्थापतितोऽपि च जीवः प्रबलपुरुषार्थेन बन्धनग्रस्ततां विच्छिद्य मुक्ततामधिगन्तुं समर्थ एवेति सघोषमुश्रुष्यते जैनैः । यद्यपि केचन जीवाः शास्त्रे 'अभव्य(=मोक्षार्थमयोग्य)' रूपेण परिगणिताः । तथापि तत् परिगणनं नाऽऽत्मौपम्यबाधकतिरस्कारजमपि तु योग्यताभेदसूचकम् । अनादिसंसिद्धोऽयमभव्यभव्ययोर्जीवाकाशयोरिव स्वभावकृतो भेदः । आत्मनः कस्यचित् तादृश्येव 'भवितव्यता'विशेषरूपा नियतिर्भवति यया खलीकृतः स मोक्षार्थं नैवोत्सहते । सत्यनुत्साहे कथं मोक्षोपायवार्ताऽपि ? एवं मोक्षार्थं कदाचिदप्युद्यमी न भविष्यतीति सोऽभव्य उच्यते । ‘एवं सति “अहं मुक्तिगमनार्हः स्यामुत ने"ति संशयितमानसस्य तदुपाये उत्साहो न स्याद् इति केचनाऽऽक्षिपन्ति । परं न तद्युक्तं-तच्छङ्काया एव तन्निश्चयहेतुत्वात्, आत्मनि भव्यत्वशङ्काया भव्यत्वसत्ताया व्याप्यत्वात् । आत्मन्यणीयस्याऽपि शमादिसम्पत्त्या तन्निश्चयसम्भवाच्च । मोक्षोद्यमात् पूर्वमपि स्वभावतो दर्शनान्तरप्रणीतपूर्वसेवाद्याचरणेन वा मनाक्शमादिसम्पत्तिः सुसम्भवैव । क्रमशः सर्वभव्यानां मुक्तिगमने संसारो भव्यशून्यो भविष्यतीत्यापत्तिर्भव्यराशेरनन्तत्वस्वीकारेण न सम्भवति । प्रतिक्षणं कालस्य हानौ सत्यामपि संसारः कदापि कालशून्यो न भविष्यतीत्यायुदाहरणान्यत्र द्रष्टव्यानि । यदाकदाचिदपि मुक्तजीवराशिर्भव्यजीवराशेरनन्तभागमात्र एव भवति । इदमेवाऽनेनाऽपि सिद्धं भवति यत् केचन जीवा भव्यत्वे १. नवतत्त्व०-६०

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 285