Book Title: Muktivad
Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 11
________________ 10 प्रतीयते, अन्तिमं च द्वयमविद्यादोषकल्पितम् । कल्पितेन नामरूपभेदेनैव प्रपञ्चस्य परस्परं भिन्नत्वेनाऽवगतिः । अथ च 'तत्त्वमसी'त्याद्यखण्डवाक्यार्थजन्यब्रह्मबोधेनाऽविद्यादोषनिवृत्तौ तत्कल्पितरूपद्वयनिवृत्तौ रूपत्रयस्य सच्चिदानन्दरूपब्रह्मानन्यभूतस्याऽवस्थानं मुक्तिः । मुक्तानां निर्गुणब्रह्मसाक्षात्कारवतां यावत्प्रारब्धं तावदत्रैवाऽवस्थानं, न तु लोकान्तरगमनम् । अवस्थैषा जीवन्मुक्तिरित्युच्यते । प्रारब्धं यावत् सुखदुःखान्यनुभूय पश्चादेते परममुक्तिमासादयन्तीत्यद्वैतसिद्धान्तः । एतन्मते मुक्तौ आनन्दावाप्तिरनर्थनिवृत्तिश्च भवत:२ । यद्यप्येते अनर्थनिवृत्तिसुखप्राप्ती च सादी, सादित्वे च सान्तत्वापत्तिरिति वक्तुं शक्यते एव, तथाऽपि वेदान्तिन एनं दोषमित्थं निराकुर्वन्ति-सिद्धस्यैव ब्रह्मस्वरूपस्य मोक्षस्याऽसिद्धत्वभ्रमेण तत्साधने प्रवृत्तिः । प्राप्तस्याऽप्यानन्दस्य प्राप्तिः, परिहृतस्याऽप्यनर्थस्य निवृत्तिर्मोक्ष इति । अविद्याया एकत्वेनैकमुक्तौ सर्वमुक्तिप्रसङ्गरूपो दोषोऽस्मिन् मते । एतन्निवारणार्थं तेऽविद्यानानात्वं तद्गतशक्तिनानात्वं वा स्वीकुर्वन्ति । इष्टापत्तिरूपेणाऽपि केचिदेनं मन्यन्ते । साङ्ख्या:-एतन्मते पङ्गकल्पः शुद्धचैतन्यस्वरूपो निष्क्रियः पुरुषोऽन्धकल्पां जडां प्रकृति सक्रियामाश्रितो बुद्ध्यध्यवसितं शब्दादिकं स्वात्मनि प्रतिबिम्बितं चेतयमानो मोदते, मोदमानश्च प्रकृतिं सुखस्वभावां मोहाद् मन्यमानः संसारमधिवसति । यदा च पञ्चविंशतितत्त्वज्ञानात् प्रकृतिपुरुषयोर्भेदज्ञानं भवति तदा प्रकृतेः प्रवृत्तिरुपरता भवति । ततश्च पुरुषस्य यत् स्वरूपेणाऽवस्थानं तदेव मुक्तिः । सर्वथा निर्लेपस्य निष्क्रियस्य प्रकृतिविकृत्यनात्मकस्य च पुरुषस्य बन्धमोक्षसंसारा न सम्भवन्तीति ते प्रकृतेरेवेति मन्यन्ते कापिलाः । पुरुषे तु ते विवेकाग्रहादुपचरिता एवभृत्यगतजयपराजययोः स्वामिन्युपचारवत् । पञ्चविंशतितत्त्वज्ञानमेकमेव मुक्तौ कारणमिति साङ्ख्यानां मतिः ।४ बौद्धाः-अत्र मतचतुष्टयम्१. नैरात्मभावनातो ज्ञानसन्तानोच्छेदो मुक्तिः-सौत्रान्तिकाः । १. अतीताननुसन्धानं, भविष्यदविचारणम् । ___ औदासीन्यमपि प्राप्ते, जीवन्मुक्तस्य लक्षणम् ॥ - शङ्कराचार्यः २. आनन्दात्मकब्रह्मावाप्तिश्च मोक्षः शोकनिवृत्तिश्च ॥ - वेदान्तपरिभाषा ३. तस्मान्न बध्यते नैव मुच्यते नाऽपि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ - साङ्ख्यकारिका ४. हस पिब लल मोद नित्यं विषयानुपभुञ्ज कुरु च मा शङ्काम् । यदि विदितं ते कपिलमतं तत्प्राप्स्यसे मोक्षसौख्यं च ॥ - साङ्ख्यकारिका-माठरवृत्तिः

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 285