Book Title: Muktivad
Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 10
________________ ज्ञानादीनामुत्पत्तिरिति ज्ञानादिकं प्रति शरीरं कारणमिति स्वीक्रियते । मुक्तौ शरीराभावाज्ज्ञानाभावः । सुखेच्छायाः सत्त्वे वैराग्यव्याहतिः स्यादिति 'दुःखं मा भूद्'इतीच्छयैव मुक्त्यर्थं प्रयत्न इति तेषां कथनम् । मुक्तौ दुःखाभाव एव सुखत्वेनोपचर्यते इति ते वदन्ति । अत एव तेषामित्थमुपहासोऽपि श्रूयते वरं वृन्दावने रम्ये, क्रोष्टत्वमभिवाञ्छितम् । __न तु वैशेषिकी मुक्ति, गोतमो गन्तुमिच्छति ॥ इति । मीमांसका:-एतेषां प्रस्थानद्वयम् । एकं प्राभाकराणाम्, द्वितीयं भाट्टानाम् । तत्र प्राभाकराणां मते-काम्यनिषिद्धकर्मवर्जनपूर्वकं नित्यनैमित्तिककर्मानुष्ठानेन धर्माधर्मयोविनाशे सति देहेन्द्रियादिसम्बन्धस्याऽऽत्यन्तिकविच्छेद एव मोक्षः । आत्मज्ञानमपि तत्र सहकारिकारणम् । एतन्मते मोक्षदशायामानन्दस्याऽप्यत्यन्तोच्छेदो भवति ।२ लक्षणं तु_आत्यन्तिकदुःखप्रागभावो मुक्तिः । समानाधिकरणदुःखासहवृत्तित्वमेवाऽऽत्यन्तिकत्वम् । प्रागभावो यद्यप्यनादिः, न कृतिसाध्यः, तथाऽपि तत्प्रतियोगिजनकाधर्मनाशद्वारेण कथञ्चित्कृतिसाध्योऽपि । अत्र 'अनादिः सान्तः प्रागभाव' इति लक्षणेन दुःखप्रागभावस्याऽन्ते मुक्तेः प्रच्यवनापत्तिः । तस्याऽनन्तत्वे पुनः सोऽत्यन्ताभाव एव भवेदिति अत्यन्ताभावस्याऽनाद्यनन्तत्वेनाऽसाध्यत्वाद् मोक्षस्याऽप्यसाध्यत्वप्रसङ्गः । __ भाट्टानां मते-त्रेधा हि प्रपञ्चः पुरुषं बध्नाति-भोगायतनं शरीरम्, भोगसाधनानीन्द्रियाणि, भोग्याः शब्दादयो विषयाश्च । भोगः = सुखदुःखविषयोऽपरोक्षानुभवः । तदस्य त्रिविधस्याऽपि बन्धस्याऽऽत्यन्तिको विलयो मोक्षः ।३ मोक्षदशायां शुद्धस्वरूपोदयेन शुद्धानन्दस्याऽनुभूतिर्भवति । वेदान्तिन:-वस्तुमात्रे सत्त्वमिष्टत्वं ज्ञातत्वमिति रूपत्रयमनुगतं, नाम रूपं चेति द्वयमननुगतं भासते । तत्राऽऽदिमं त्रयं ब्रह्मगतमेव व्यापके ब्रह्मण्यध्यस्तत्वात् प्रपञ्चेऽपि तावदात्यन्तिकी दुःखव्यावृत्तिर्नाऽवकल्पते ॥ ननु तस्यामवस्थायां, कीदृगात्माऽवशिष्यते ? । स्वरूपैकप्रतिष्ठानः, परित्यक्तोऽखिलैर्गुणैः ॥ - न्यायमञ्जरी ॥ १. नित्यानन्दप्रतिपादिका श्रुतिरात्यन्तिके दुःखवियोगे भाक्ता - न्यायवार्तिकतात्पर्यटीकायां वाचस्पतिमिश्रः । २. आत्यन्तिकस्तु देहोच्छेदो निःशेषधर्माधर्मपरिक्षयनिबन्धनो मोक्षः - प्रकरणपञ्चिका । ३. न प्रपञ्चविलयो मोक्षः, किन्तु प्रपञ्चसम्बन्धविलयः - शास्त्रदीपिका ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 285