Book Title: Muktivad Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay Publisher: Shrutbhuvan Sansodhan Kendra View full book textPage 8
________________ जैनदर्शनसत्कमुक्तिविभावना __- आ० श्रीविजयशीलचन्द्रसूरिशिष्य मुनित्रैलोक्यमण्डनविजयः भारतवर्षे यानि यानि दर्शनानि सन्ति, तेषु सर्वेषु परमलक्ष्यतया मुक्तेरेव स्वीकारः । यत्र शब्दशास्त्र-सङ्गीतकलादीनामपि फलश्रुतेर्मुक्तावेव पर्यवसानत्वं भवेत्तत्र दर्शनानां प्रस्थापनं तु मुक्त्यर्थमेव स्यादिति स्वाभाविकम् । 'विविधतायामेकते'ति सूत्रं सार्थकीकुर्वतः, परस्परं सङ्घट्टमानेष्वपि दर्शनेषु समानतया परमपुरुषार्थत्वेन मुक्तिस्वीकारस्य कारणं नाऽन्यत् किञ्चित्, परं सकलदर्शनेषु प्रामुख्यमावहमानाऽऽध्यात्मिकतैव । आध्यात्मिकतायाः साक्षात् सम्बन्ध आत्मोन्नत्या सह, आत्मोन्नतिपराकाष्ठा तु मुक्तिरेवेति यत्राऽऽत्मवादस्तत्राऽवश्यं मुक्तिचर्चा । आत्मा तु सर्वैरङ्गीकृतः, नाऽङ्गीकृतश्चेद् ज्ञानसन्तत्यादि तत्स्थानेऽभिषिक्तमिति मुक्त्यर्थमेव प्रयतन्ते सर्वधर्मसम्प्रदायानुसारिणः । अथ सकलदर्शनेषु तदवस्थाविशेषार्थं प्रयुज्यमानो 'मुक्ति'शब्द एव सूचयति तत्रस्थात्मनो बन्धनग्रस्तताऽभावः । तस्मात् स्थानात् प्रच्यवनं नाऽस्तीत्यपि कांश्चन मुक्त्वारे सर्वैरङ्गीकृतम् । मुक्तौ नित्यं निरतिशयं सुखमनुभूयते इति यद्यपि सर्वेषां न सम्मतं, तथाऽपि तत्र दुःखलेशस्याऽप्यभाव इत्यत्र न कस्याऽपि विप्रतिपत्तिः । मुक्तिः संसारावस्थातो भिन्नोत्कृष्टा चाऽवस्थेत्यत्र तु सर्वेषामैकमत्यम् । इत्थं यद्यपि समाना सर्वदर्शनस्थमुक्तिविभावना, तथाऽपि तत्तदर्शनानां मूलतत्त्वेषु मान्यताभेदतस्तत्राऽपि समागताऽस्ति विभिन्नता। जैनदर्शने त्वात्मस्वरूपे एव दर्शनान्तरतो महदन्तरमिति मुक्तिवादेऽपि महत्येव भिन्नता । का सा ? तद् दर्शयितुमेवाऽत्र प्रवृत्तम् । तत्र प्रथमं कतिचिद्दर्शनान्तराणां मतानि सङ्कपतो विचारयामः, येन जैनदर्शनस्थ १. चार्वाकादयोऽत्राऽपवादीभूताः, तथाऽपि ते तत्त्वचर्चायां प्रायो नाऽधिक्रियन्ते इति अत्र 'सर्वेषु' इति लिखितम् । २. ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ - आजीवकाः ।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 285