Book Title: Muktivad Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay Publisher: Shrutbhuvan Sansodhan Kendra View full book textPage 7
________________ भूमिका निर्विवादमिदं विपश्चिदपश्चिमानां यद्धर्मार्थकाममोक्षेषु चतुर्विधेषु पुरुषार्थेषु मोक्ष एवात्यन्तिकः पुरुषार्थः । तत्सम्पत्तिश्च श्रवणमनननिदिध्यासनाधीनात्मसाक्षात्काराधीना न स्वोत्पत्तौ सहकारितयापि कर्मादीनपेक्षते । तत्र निखिलशास्त्रधुरीणवेदान्तेषु प्रसिद्धापि सा नैयायिकमते जीवब्रह्मभेदस्य जागरूकत्वात् कथं सङ्गच्छत इत्याशङ्कापिशाचीप्रसारनिःसारणक्षमः श्रीमान् नव्यनैयायिकाग्रणीर्गदाधरभट्टाचार्यः "तदत्यन्ताभावविमोक्षोऽपवर्गः" इति प्राचीनमुक्तिपदार्थलक्षणघटकात्यन्तिकपदस्य प्रतिवादिदुर्घटकल्पनानिघर्षणपूर्वकं यया युक्त्याऽर्थं कृत्वा मुक्तिवादे तादृशीं मुक्तिं जीवब्रह्मयोर्भेदेऽपि स्थापितवान् तदिदं ग्रन्थगर्भावलोकनेनैव दृष्टिपथमुपयास्यति विदुषाम् । तदिदमीदृशसुनिपुणविद्वद्वरधुरीणमात्रज्ञेयग्रन्थव्याख्यानप्रथमसाहसं क्षमिष्यन्ते नैयायिकप्रवराः कर्मणा चानेन प्रीयतां जगदाधारः श्रीमान् पशुपतिरिति कृताञ्जलिः प्रार्थयते सुधीजनविधेयः ढुण्डिराजशास्त्रीPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 285